Book Title: Ajitrabhu Charitram
Author(s): Devanandsuri, Vinaypurnashreeji
Publisher: Omkarsuri Gyanmandir
View full book text
________________
४३०
श्री अजितप्रभुचरितम् सर्गः ६
विचित्रैरुपदेशैस्तु, वारयन्तमहर्निशम् । विबुधं प्रत्यभाणीत् सोऽनणीय: पातकावनिः ॥ ७०८ || ‘मूढात्मन् ! मांस-मद्यादिरसं जानाति नो भवान् । वृथा वञ्चयते ननु ? 1190811
तत्तस्माद् मामपि कथं,
तदेव सारं विश्वेऽस्मिन् भुज्यते पीयते च यत् ।
नो भुक्ता न च पीता ये, ते[ऽन्ते] शोचन्ति मानवाः' ॥७१०॥
एवं समुद्धतं जल्पन्, कल्पयन् पातके मनः । अवहीलितसच्छिक्षो, बद्धलक्षो रसेष्वसौ ॥७११ ॥
तन्वानः कष्टलक्षाणि, क्षीणदुर्गतिपातभीः । रसलोल इति ख्यातिं, लेभे लोके समन्ततः ॥७१२॥ युग्मम् ॥
वसन्तेऽथद्यानिकया, गन्तुकामोऽन्यदा बहुम् ।
स्निग्धं मधुरमाहारं, सज्जयामास वल्लवैः ॥७१३||
सर्वं च प्रगुणीकृत्य, विज्ञप्तस्तैरथ द्रुतम् । आगत्य स्वयमैक्षिष्ट, रसास्वादनलम्पटः ॥७१४|| तदा च प्रज्वलत्कायोऽप्युच्चैर्ज्वरभरादसौ । पश्यन् मोदकं सद्गन्धं, घृतशाल्यादि सुन्दरम् ॥७१५॥ आघ्रायाऽऽघ्राय लोलात्मा, यावदारब्ध जेमितुम् । तावद्वैद्याः सुनिष्णातमतयोऽवारयन्निति ||७१६ ॥ युग्मम् ॥ ‘राजाङ्गज ! ज्वरः सद्योजातः प्राज्योऽस्ति ते तनौ । जायोरप्यधिकारो नाऽधुना भोज्यस्य का कथा ? ' ॥७१७||
१. तुला. पुष्पमालायां २६१ तमस्य श्लोकस्य वृत्तौ रसलोलकथायाम् 'अह अन्नया चलिओ उज्जाणियाए इमो' इति ।

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502