SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४३० श्री अजितप्रभुचरितम् सर्गः ६ विचित्रैरुपदेशैस्तु, वारयन्तमहर्निशम् । विबुधं प्रत्यभाणीत् सोऽनणीय: पातकावनिः ॥ ७०८ || ‘मूढात्मन् ! मांस-मद्यादिरसं जानाति नो भवान् । वृथा वञ्चयते ननु ? 1190811 तत्तस्माद् मामपि कथं, तदेव सारं विश्वेऽस्मिन् भुज्यते पीयते च यत् । नो भुक्ता न च पीता ये, ते[ऽन्ते] शोचन्ति मानवाः' ॥७१०॥ एवं समुद्धतं जल्पन्, कल्पयन् पातके मनः । अवहीलितसच्छिक्षो, बद्धलक्षो रसेष्वसौ ॥७११ ॥ तन्वानः कष्टलक्षाणि, क्षीणदुर्गतिपातभीः । रसलोल इति ख्यातिं, लेभे लोके समन्ततः ॥७१२॥ युग्मम् ॥ वसन्तेऽथद्यानिकया, गन्तुकामोऽन्यदा बहुम् । स्निग्धं मधुरमाहारं, सज्जयामास वल्लवैः ॥७१३|| सर्वं च प्रगुणीकृत्य, विज्ञप्तस्तैरथ द्रुतम् । आगत्य स्वयमैक्षिष्ट, रसास्वादनलम्पटः ॥७१४|| तदा च प्रज्वलत्कायोऽप्युच्चैर्ज्वरभरादसौ । पश्यन् मोदकं सद्गन्धं, घृतशाल्यादि सुन्दरम् ॥७१५॥ आघ्रायाऽऽघ्राय लोलात्मा, यावदारब्ध जेमितुम् । तावद्वैद्याः सुनिष्णातमतयोऽवारयन्निति ||७१६ ॥ युग्मम् ॥ ‘राजाङ्गज ! ज्वरः सद्योजातः प्राज्योऽस्ति ते तनौ । जायोरप्यधिकारो नाऽधुना भोज्यस्य का कथा ? ' ॥७१७|| १. तुला. पुष्पमालायां २६१ तमस्य श्लोकस्य वृत्तौ रसलोलकथायाम् 'अह अन्नया चलिओ उज्जाणियाए इमो' इति ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy