________________
४३१
रसनेन्द्रियासक्तौ रसलोलकथा अब्रवीन्मतिविकलोऽद्यापि रे रे चिकित्सकाः ! । न वित्थ प्रकृति कालेनेयताऽपि तनोर्मम ॥७१८।। वाताधिकं शरीरं मे, ज्वर ऊनतया ह्यसौ । उत्तरिष्यति तन्मक्षु, बहुसन्तर्पणात्तनोः' ॥७१९।। ऊचुर्वैद्याः 'शरीरस्य, लिङ्गैः सुस्निग्धतादिभिः । उद्गाराणामप्यजीर्णगन्धेन च विबुध्यते ॥७२०॥ वातोद्भवो [ज्वरो] नैष, कुमार ! तव वर्मणि । तर्पणात् प्रबलो भावी, लङ्घनं युक्तमद्य तत्' ॥७२१॥ कुमारोऽवददज्ञानजनवन्मामपि द्रुतम् । लङ्घनेनाऽधुना मारयितुमिच्छथ किं शठाः ! ? ||७२२।। जाने स्वीयशरीरस्य, प्रकृति स्वयमप्यहम्' । वैद्यास्ततोऽवदंस्तर्हि, यद् युक्तं तद्विधीयताम्' ॥७२३।। ततः स्वैरमसौ भुक्त्वा, रसगृद्धो दुराशयः । वारितोऽपि समारुह्य, करेणुं निर्ययौ बहिः ॥७२४॥ तत्रापि प्रेरितो बाढं, रसलोलतया कुधीः । बाहौ धृत्वा भिषगाद्यैः, प्रतिषिद्धोऽप्यवाष्वणत् ॥७२५।। आकण्ठं पूर्णजठरो, वामचेष्टो वमन्नथ । त्रायध्वं त्रायध्वमिति, दीनगीरलुठद्भुवि ॥७२६।। तथा विसूचिकाक्रान्तं, लुठन्तमशुचौ रसे । तं विज्ञायाऽथ विबुधो, वत्सलस्तूर्णमागमत् ॥७२७॥