SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४३२ श्रीअजितप्रभुचरितम् सर्गः-६ वैद्यैर्निवेदितं श्रुत्वा, तं च व्यतिकरं रयात् । शिबिकायां तमारोप्य, निनाय निजवेश्मनि ॥७२८।। रसलोलोऽपि पीडार्लो, लगित्वा भिषगंहिषु । अभाषत 'प्रसधैकवारं, जीवयताऽऽशु माम्' ॥७२९।। अजल्पन् भिषजो ‘दोषस्त्वयैवैष स्वयंकृतः । त[द्] विघ्नोऽस्मत्प्रतीकाराद्विनिवर्त्यति वा न वा ॥७३०।। न च जिह्वा तव वशे, हितोक्तिं न च मन्यसे । उल्लाघश्च तथैव त्वं, चेष्टसेऽलं श्रमेण तत्' ॥७३१॥ रसलोलः पादलग्नोऽवददेवं चिकित्सकान् । 'अद्य प्रभृति वो वाक्यं, विधास्याम्यखिलं ननु' ॥७३२॥ ततस्तथैव ते मातापितृभ्यां विबुधेन च । भणिताः प्रगुणीचक्रुस्तं यत्नेन कथञ्चन ॥७३३।। सम्प्राप्तोऽनामयमयमवमत्य भिषग्वचः । नैवाऽखाद्यमपेयं [च], दुर्धीस्तत्याज किञ्चन ॥७३४।। निषेधतो विबुधस्योपरि च द्वेषमादधौ । बालिशा नहि जानन्ति, हिताहितविचारणाम् ।।७३५।। अन्यदा तावुभौ भोक्तुमुपविष्टौ समं क्वचित् । पीयूष-गरलौ दैवादेकत्र मिलिताविव ॥७३६।। विबुधः सरलात्माऽथ, स्निग्धं मधुरमुत्तमम् । भोज्यं किञ्चित् क्षणेऽमुष्मिन्, प्रागेव समुपाददे ॥७३७।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy