________________
रसनेन्द्रियासक्तौ रसलोलकथा
४३३ तच्च पश्चादकुशलमते! पुण्यमेव तत् । क्रोधान्धोऽचिन्तयच्चित्ते, नृशंसप्रकृतिर्यथा ॥७३८।। भुञ्जानं सरसाहारं, मामेष प्रतिषेधति । सर्वं चैकः स्वयं भुङ्क्ते, कैतवाक्रान्तमानसः ॥७३९॥ वैमात्रे]यो ह्ययं भ्राता, रिपुरेव कथं हितः ? । तदमुं मारयाम्यद्येत्याचकर्ष क्षुरी रयात् ॥७४०॥ प्रहारं चामु[चत्] क्रूरो, विबुधस्तु स्वकौशलात् । वञ्चयामास तुमुलः, सुमहांश्च तदाऽभवत् ॥७४१॥ अहो ! पश्यत संसारस्यासारत्वं यदेष मे । भ्राताऽपि वैरिवत् कामं, निर्निमित्तमभूदहो ! ॥७४२॥ अमुना गृहवासेन, सर्वानथै कहेतुना । तत् किं ममेति मनसा, ध्यायन्नुद्वेगभृद्भवात् ॥७४३॥ विबुधस्तुमुले तत्र, प्रसर्पति विनिर्गतः । पथि गच्छत्रवैक्षिष्ट, क्वाप्युद्याने महामुनिम् ॥७४४।। त्रिभिः सम्बन्धः ॥ सौवर्णकमलासीनं, तं चतुर्जानिनं मुनिम् । भक्त्या नत्वा च शुश्राव, महा● धर्मदेशनाम् ॥७४५।। संविग्नश्च तदभ्यर्णे, प्रव्रज्य विजितेन्द्रियः । शुभाशुभेषु भावेषु, माध्यस्थ्यं समधिष्ठितः ॥७४६।। त्रिकालत्रिजगद्भासि, केवलज्ञानमासदत् । सोऽहं नरपतेऽत्राऽऽगां, विहरन्नवनौ क्रमात् ॥७४७॥ [युग्मम्]