________________
४३४
श्रीअजितप्रभुचरितम् सर्गः-६
ततो विमलयशसा, राज्ञा सभयविस्मयम् । पप्रच्छे रसलोलस्य, ततः किं भगवन्नभूत् ? ॥७४८।। मुनिनाऽभण्यत शृणु, स वराको निरन्तरम् । उत्साहितो लोलतया, प्रावृतत् पापकर्मसु ॥७४९।। स्थापितश्चान्यदा सैष, पित्रा राज्ये महद्धिके । लोलुपोऽन्यान्यमांसादिरसास्वादैकधीरभूत् ।७५०॥ अन्येधुरामिषं राद्धं, तन्निमित्तं कथञ्चन ।
ओतुना भक्षितं सूपकारो भीतमनास्ततः ॥७५१॥ रथ्यायां निकटे डिम्भं, क्रीडन्तं कञ्चन द्रुतम् । गृहीत्वा हत्वा पक्त्वा च, रसलोलमभोजयत् ॥७५२॥ [युग्मम्] 'भो भो ! अभुक्तपूर्वोऽसौ, स्वादुमांसरसः कुतः ?' । इति निर्बन्धतः सूदमन्वयुक्त स भूमि[प]: ।।७५३॥ प्राप्ताभयेन सूदेन, कथितेऽथ यथास्थिते । रसलोलोऽभ्यधादेवमेव कुर्या दिने दिने ॥७५४।। एवं स प्रत्यहं पापश्छन्नं रथ्यागतं शिशुम् । एकैकं हारयित्वाऽऽशु, मारयित्वा च भुक्तवान् ।।७५५॥ विद्वद्भिः क्रमतस्तच्च, स्वरूपं सचिवोत्तमैः । बहुधा वारितोऽप्येष, दुष्टात्मा विरराम न ॥७५६॥ ततो नृचक्षःप्रकृति, बुद्ध्वा बद्ध्वा च तं क्वचित् । क्षिप्त्वाऽटव्यां ददू राज्यं, मत्कनिष्ठाय मन्त्रिणः ॥७५७।।