SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ रसनेन्द्रियासक्तौ रसलोलकथा ४२९ विलेपनं तथेच्छन्ति, कर्पूर-चन्दनादिभिः । किं बहूक्तेन बाध्यन्ते, विकारैरखिलैरपि ॥६९८॥ मूले सिक्ते यथा वृक्ष, ऊर्वं स्यात् फलपुष्पभाक् । तत्र शुष्के च झटिति, शुष्यत्येष समन्ततः ॥६९९।। एवमिन्द्रियवृक्षोऽपि, प्रीणिते रसनात्मनि । मूले विकारैः फलति, शुष्यत्येवाऽन्यथा पुनः ॥७००।। तदुक्तमिदमेवोर्वीपते ! दुर्जयमिन्द्रियम् । जितेऽमुष्मिन् जितान्येव, जानीह्यज्ञानहेलया ॥७०१॥ दुर्जयत्वेऽस्य दृष्टान्तं, शृण्वभूतां नृपात्मजौ । नामतो विबुध-मति[विकलौ भिन्नमातृकौ ॥७०२॥ सह वृद्धि गतावेतौ, सहैव क्रीडितावपि । सहोपात्तकलौ चापि, जातौ भिन्नस्वभावको ॥७०३।। विबुधस्तत्र सरलः, शुद्धबुद्धिजितेन्द्रियः । कृतज्ञः प्रियवाक् त्यागी, परोपकृतिकर्मठः ॥७०४।। विपरीतगुणस्त्वन्यो, विशेषाज्जिह्वया जितः । अतृप्तो [यः] पलं भुङ्क्ते, मद्यं पिबति चानिशम् ॥७०५॥ आदिनेशोदयं यावन्नहि रुद्धः प्रमीलया । नैवाऽखाद्यादपेयाच्च, तावद् व्यरमदेषकः ॥७०६॥ मृगयायां चरन्नेष, मृग-कोलादिकान् बहून् । जन्तून् जघान कारुण्यवर्जितो रसलौल्यतः ॥७०७।। १. 'शृणु अभूताम्' इति सन्धिविश्लेषः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy