________________
३९४
श्रीअजितप्रभुचरितम् सर्गः-६ इयं चाऽमृतवल्लीव, न च तस्या इहागतिः । सम्भाव्या न च मे मित्रमसम्बद्धप्रलापकम् ।।३४३।। इति चिन्तापरोऽथैष, सुहृदाऽवादि मा मुहः । दैवाल्लोके घटते हाऽघटमानमपि क्षणात् ॥३४४॥ वसुदत्तोऽवदत् 'किं नु, सैवेयं सुप्रभाङ्गजा ?' । अवादीत् सुहृदामेति, वसुर्भूयोऽप्यभाषत ॥३४५।। 'सुहृद्भिर्मत्पुरः काणा, कुरूपाणां च साऽवधिः । यदजल्प्यत तत् किं तु,' प्रोचेऽथ मतिमन्दिरः ॥३४६।। 'त्वं बालिशोऽसि यत्केलीकिलानां तादृशां वचः । प्रत्येषि यदि वा दोषो, न ते तेषां च नाऽसकौ ॥३४७|| किन्तु तस्याः पूर्वजन्मविहितं कर्म किञ्चन । उदीर्णं तेन सा दुःखमियत्कालमदोऽन्वभूत्' ॥३४८॥ इति मित्रगिराऽऽत्मानमविमृश्य विधायिनम् । निन्दन् कमलिनी प्रेम्णाऽनाय[य]त् स निजौकसि ॥३४९।। कमलिन्या सममथो, भजन् वैषयिकं सुखम् । निनाय वासरान् भूरीन्, क्षणवत्तुष्टमानसः ॥३५०॥ पितर्यथ कथाशेषे, गृहस्वाम्यं श्रयन्नयम् । सिषेवे धर्म-कामा-ऽर्थान्, यथाकालं महाशयः ॥३५१॥ नाम्ना कमलवदनमवधिज्ञानिनं मुनिम् ।। नत्वाऽन्येद्युः सभार्योऽसौ, देशनामशृणोदिति ॥३५२॥ 'तत्त्वातत्त्वपरिज्ञानविमूढैः क्रूरवर्तिभिः । गिराऽपि सहसा कर्म, बध्यते दुर्विपाकदम् ॥३५३॥