SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३९३ कृतकर्मविपाके वसुमतीकथा यद्वाऽदः प्रमदारत्नं, कथं मुञ्चे करस्थितम् । लोको वदतु यत् किञ्चित्, स्वार्थस्तु त्यज्यते न हि ॥३३२॥ इति कामितया लुप्तयुक्तायुक्तविवेचनः । पल्यङ्केऽस्थापयत्तां स, जग्मिवांस्तु परिच्छदः ॥३३३।। स्नेहसारं ततश्चैतौ, स्वेच्छयैव [वि]लेसतुः । यूनोर्बुपांशु जागर्ति, मान्मथी विक्रियाऽखिला ॥३३४॥ एवं प्रेमभरान्नित्यं, विविधं क्रीडतोस्तयोः । दिनानि कतिचिज्जग्मुः, सम्मदापूर्णचेतसोः ॥३३५।। वसुदत्तमथाऽन्येद्युः, सस्मितं मतिमन्दिरः । कथाप्रसङ्गे न्यगदन्, 'मित्रेदानीं त्वया समम् ॥३३६।। राज्ञी काचन सानन्दा, तनुलाभप्रदायिनम् । व्यवहारं करोतीति, श्रूयते जनताजनात्' ॥३३७|| युग्मम् ॥ साकूतं वक्ति च्छेकोऽयमित्याशङ्कां दधद्वसुः । अव[द]त् कापि ग्रामीणा, गृह्णीते कर्पटादिकम् ॥३३८।। पुनः परोऽवदत् स्मित्वा, ‘पश्याऽहो पुण्यपादपे । फलिते लभते काले, सर्वः सर्वमपीप्सितम् ॥३३९॥ यत् प्रदोषे कमलिनी, पश्यत्यर्को दृशाऽपि न । करैः स्पर्शं सुसर्वाङ्ग, तां सुखाकुरुते प्रगे' ॥३४०॥ गिरं विदग्धां श्रुत्वेति, वसुदत्तो व्यचिन्तयत् । अदः किं वक्ति गम्भीरं, वाक्यमेष सुहृन्मम ॥३४१॥ गिराऽनया हि राज्ञीयं, सा मद्भार्येति सूच्यते । कथं च घटते सा यच्छ्रुतैव विषकन्दली ॥३४२।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy