________________
३९२
श्रीअजितप्रभुचरितम् सर्गः-६
तद्बुद्धिवर्त्मगा साऽथ, याप्ययानमधिष्ठिता । विहितोदारशृङ्गारा, वसुदत्ताऽऽपणं ययौ ॥३२१॥ ततस्तां युवति सोऽपि, रूपातिशयशालिनीम् । निरीक्ष्य क्षुब्धचेतस्कोऽदापयन्महदासनम् ॥३२२॥ तस्यां तत्र निषण्णायां, वसुदत्तः ससम्भ्रमम् । चेटी पप्रच्छ का त्वेषा, ततः सेत्थमचीकथत् ॥३२३॥ 'भूमीशवल्लभस्यैषा, मगधाख्यस्य गेहिनी । सम्प्राप्ता प्रवरकुलाभिधानात् सन्निवेशतः ॥३२४|| कर्पटा-ऽगरु-कर्पूर-कस्तुरी-चन्दनादिकम् । इतो ग्रहीष्यत्यस्माकं, स्वामिनीयं वणिग्वर !' ॥३२५।। तच्छ्रुत्वा तुष्टचित्तोऽसौ, प्रेरितः पुष्पधन्वना । तूर्णं सम्मानयामास, तां ताम्बूलादिदानतः ॥३२६।। तदुक्तं वस्तु सर्वं च, प्रदाय स्वैर्वणिक्सुतैः । बन्धयामास स क्षिप्रं, दर्शयन् परमादरम् ॥३२७।। ततोऽस्तङ्गतवत्यर्के, तिमिरे च प्रसृत्वरे । दास्यवो[च]द्वसुदत्तमुत्सूरोऽजायताऽधुना ॥३२८॥ यदि किञ्चिद्भवेत् स्थानमापणे वस्तदा तमीम् । लङ्घतेऽत्रैव नः स्वामिन्येषा बाढं श्रमातुरा ॥३२९।। वयं तु क्वापि यास्यामोऽन्य[त्रे]ति श्रेष्ठिनन्दनः । आकर्ण्य हृदये दध्यावीषत्स्मरवशंवदः ॥३३०॥ इदं कलत्रं भूमीशवल्लभस्य वणिक् त्वहम् । द्वयोरेकत्र शयनं, भृशं लोके विरुध्यते ॥३३१।।