________________
कृतकर्मविपाके वसुमतीकथा
वसुदत्तोऽपि वेश्याभिर्विललास घनं धनम् ।
चित्ते तेपेतरां नाम्नि, कमलिन्याः श्रुतेऽपि तु ॥३११॥
।
परै रूपादिकांस्तस्याः, सुगुणान् वर्णितानपि । न श्रद्दधे परं मौनमेडमूक इवाश्रयत् ॥३१२॥ एवं कमलिनी प्राच्यजन्मोपात्तस्य कर्मणः । दोषेण द्वाद [ शा] ब्दानि, विरहं प्राप दुःसहम् ॥३१३॥ कालेनैतावता तस्या, निर्जीर्णे तत्र कर्मणि । उदभूत्सुव्रताख्यस्य, श्वशुरस्य परा मतिः ||३१४|| ततोऽसौ पुत्रसुहृदं, नामतो मतिमन्दिरम् । चतुर्द्धा बुद्धिसम्पन्नमाजुहाव स्वमन्दिरे || ३१५ || सम्मान्य तमभाणीच्च यथा 'जानासि ते सुहृत् । दोषोज्झितामपि वधूं, नैव वाञ्छति दुर्मतिः || ३१६॥ तथा विधेहि तद्भद्र !, यथा साऽऽप्नोति निर्वृतिम् । बुद्धिवल्लीनवाम्भोदं, त्वां विनेदं न सिध्यति ॥३१७॥ ततः सोऽप्यगदत् ‘श्रेष्ठिन् !, खिद्यथा मा स्म तां त्विह । छन्नमानायय यथा, सिध्यत्यर्थः समीहितः ' ॥३१८॥ श्रेष्ठ्यप्यामेति व्याहृत्य, च्छन्नं कमलिनीं वधूम् । आनाय्याऽन्यगृहे क्वापि स्थापयामास सत्वरम् ॥३१९॥
गत्वा च तत्र सद्बुद्धिशेवधिर्मतिमन्दिरः । विदध्या एवमेवं चेत्यशिषत्तां प्रयत्नतः ॥ ३२०॥
१. आमेत्यङ्गीकारेऽव्ययम् ।
३९१