________________
श्रीअजितप्रभुचरितम् सर्गः-६
३९०
कथं वित्थेति तेनोक्ते, तेषां मध्यादथैककः । ऊचिवानृषभपुरे, गतोऽहं स्वप्रयोजनात् ||३००|| तथाविधां च तां दृष्ट्वा, समागां तद्यथोचितम् । कुरुष्वेति निशम्याऽतिदुःखं श्रेष्ठिसुतोऽश्रयत् ॥३०१ ।। अचिन्तयच्च किं कन्या, नान्याः सन्ति जगत्यपि ? । यदीदृशीं पिता वव्रे, मदर्थे हेयकन्यकाम् ॥३०२।। किं कुर्वेऽहमिदानीं तु जन्ययात्रा चलत्यसौ । पञ्चमेऽहनि लग्नं च जल्पने लज्ज्यतेऽपि च ॥ ३०३ || न च तां तादृशीं दृग्भ्यां द्रष्टुं शक्ष्यामि तन्मम । किञ्चित् कपटमाधातुं, युज्यते ननु साम्प्रतम् ॥ ३०४|| इति ध्यात्वा दृशौ बद्ध्वा पट्टेनाऽगान्निजं गृहम् । पृष्टः पितृभ्यामूचे च, दृक्पीडा मे प्रथीयसी || ३०५ || पितृभ्यामृषभपुरं, सोऽनीयत तथास्थितः । परिणिन्ये च दृग्बद्धपट्ट एव वधूमिमाम् ||३०६ ॥
आनीता श्वशुराभ्यां सा, चम्पायां स्थापिता गृहे । यावन्त्यहानि तावन्ति, नाऽऽगाद्वेश्मनि [सोऽ] पि हि ॥३०७॥ सा पुनः प्रवरैस्तैस्तैः, सद्गुणैर्विनयादिभिः । रञ्जयामास श्वशुरकुलं सकलमन्वहम् ॥३०८॥
तद्दुःखाद् दुःखिताभ्यां च श्वशुराभ्यां निजः सुतः । भणितो भाणितोऽप्येनां, दृग्भ्यामपि न दृष्टवान् ॥३०९॥ प्रेषिताऽथ पितुर्वेश्म, श्वशुराभ्यां दिनानि सा । दुःखौघनिर्मितानीव, कल्पकल्पान्यलङ्घत ॥३१०॥