________________
कृतकर्मविपाके वसुमतीकथा
३८९
ततो गत्वा स्वयं कान्तामुवाच 'प्राणवल्लभे ! । अज्ञानाद्यन्मया बाढं, खेदिताऽसि क्षमस्व तत्' ॥२८९॥ कमलाऽप्यथ तद्वत्तं, वसुमत्या महाद्भुतम् । वीक्ष्य भीताऽनिशं तस्या, आज्ञा नैवाऽन्यथाऽकरोत् ॥२९०॥ ततः काले वसुमती, साकेतपुरवासिना । परिणिन्ये नन्दनाम्ना, वणिजा विपुलर्द्धिना ॥२९१॥ चिरं प्रपाल्य गार्हस्थ्यं, मृते भर्तरि सा पुनः । तापसव्रतमादत्त, तीव्र वयसि पश्चिमे ॥२९२।। मृत्वा च व्यन्तरेष्वासीद्वेश्या च्युत्वा ततोऽपि च । अजायतर्षभपुरे, सुप्रभश्रेष्ठिनः सुता ॥२९३॥ नाम्ना कमलिनी साऽथ, ववृधे कमलानना । यौवनं युवदृग्भृङ्गकमलं समवाप च ॥२९४॥ इतश्च चम्पा वास्तव्यः, श्रेष्ठिराट् सुव्रताभिधः । स्वपुत्रस्य वसुदत्तस्यार्थे तामवृणोत् कनीम् ॥२९५।। अत्रान्तरे च यत् पूर्वं, तया मायापटिष्ठया । दुःखं विमातुः कुर्वत्या, बद्धं दुष्कर्म दारुणम् ॥२९६।। तद्विपाकेन केनापि, गीर्वाण-नरजन्मनोः । स्त्रीत्वं प्राप्तं पुनः शेषं, किञ्चिदागात्तदोदयम् ॥२९७॥ . महिम्ना कर्मणस्तस्य, वसुदत्तः कदाचन । रममाणः सहचरैर्हास्येनैवमभण्यत ॥२९८॥ 'मित्र ! त्वदर्थं तातेन, वृता या विद्यते कनी । साऽक्ष्णा काणा कुरूपाणामवधिलक्षणोज्झिता' ॥२९९॥