________________
३८८
श्रीअजितप्रभुचरितम् सर्गः-६ कमला विलपन्ती तु, लगित्वा तत्पदद्वये । बभाणाऽद्य प्रभृत्येषा, वत्सेऽस्मि तव किङ्करी ॥२७८।। पुनर्नाऽऽगः करिष्यामि, प्रसद्य पितरं निजम् । सकृन्मयि प्रसन्नत्वं, नय सन्मतिशालिनी' ॥२७९॥ वसुमत्यभणन्मातर्यदि तेऽयमसद्ग्रहः । तद्भणिष्याम्यहं तातं, मंस्यते चेत्स मद्वचः' ॥२८०।। इत्युक्त्वा स्थापयित्वा च, तत्रैव कमलां स्वयम् । गत्वा पितरमप्राक्षीदपराद्धं किमम्बया ? ॥२८१।। सोऽब्रवीन्मा ग्रहीस्तस्याः, स्वैरिण्या अभिधामपि । परोचे स्वैरिणी ज्ञाता, कथं सोऽप्यभ्यधात्ततः ॥२८२।। 'त्वया सख्या समं गोष्ठ्यां, यदभाणि परेद्यवि । इयं शाटिकया चोक्षा, नेति' तच्छुश्रुवे मया ॥२८३॥ अथो वसुमती स्माह, सोपहासं 'पितस्तव । चार्वी विदग्धता साधु, वेत्सि तत्त्वं न मद्गिराम्' ॥२८४।। सोऽथाऽवोचत 'वत्से ! किं, तत्तथा न त्वयौच्यत' । साऽभ्यधात्तात ! मलिनां, निवस्तेऽम्बा हि शाटिकाम् ॥२८५।। मयोक्ता चाऽम्ब ! किं शाटी, प्रक्षालयसि न द्रुतम् ? । तथाप्येषा स्थिता जोषं, रजकस्य तु नो ददौ ॥२८६।। न करोषि पुनस्तप्ति, तात ! त्वमपि तन्मया । तथाऽभण्यत शीले तु, चोक्षता मातुरेव हि' ॥२८७।। ततश्चिन्तितवान् श्रेष्ठी, धिग्मां तत्त्वबहिर्मुखम् । अविचार्यैव सच्छीला, यदुःखे पातिता प्रिया ॥२८८॥