________________
३८७
कृतकर्मविपाके वसुमतीकथा श्रेष्ठी तु प्रातरुत्थाय, निर्गतो निजमन्दिरात् । बहिरेव दिनं सर्वं, नीत्वा सायं समाययौ ॥२६७॥ वासौकश्च प्रविश्याऽऽशु, शिश्ये दत्ताररिद्वयः । क्रन्दन्तीं तु तथैवाजीगणत्तां तु क्रुधोद्धरः ॥२६८॥ निशान्तेऽचिन्तयच्चैषा, समुत्पन्नमतिहुंदा । इदं प्रादुरभून्नूनं, किञ्चित् खलविचेष्टितम् ॥२६९॥ तादृक् स्निग्धोऽन्यथा भर्ता, किमकस्माद् व्यरज्यत ? । न हि शीतं जलं वह्नि, विनोष्णत्वं समाश्रयेत् ॥२७०।। सपत्नीतनयेदानीं, मयाऽदर्शि ह्यवज्ञया । तत्प्रपञ्चप्रवीणायास्तस्याश्चेष्टितमेतकत् ॥२७१॥ तदमूमेव विनयात्, प्रसन्नां करवै द्रुतम् । भूमौ स्खलितपादो हि, भूमिमेवाऽवलम्बते ॥२७२॥ विमृश्येति लगित्वाऽऽशु, वसुमत्याः पदोभृशम् । कमलोचे 'सहस्वाऽऽगो, वत्से ! निखिलमेव मे ॥२७३।। प्रसीद सप्रसादं च, कुरुष्व पितरं मयि । त्वयैव विमलप्रज्ञे !, कार्यमेतद्विसिध्यति' ॥२७४॥ ततो मायाविनी साऽपि, न्यगादीदिदमम्ब ! किम् । कुतः कदादि तातोऽभूदप्रसन्नो ननु त्वयि ? ॥२७५॥ मायाविलसितं तस्यास्तच्चित्तेन विदत्यपि । कमलाऽथाऽऽख्यदखिलं, वृत्तं दुःखमयं स्वकम् ॥२७६।। अस्माभिडिम्भरूपैः किं, ज्ञायतेऽत्रेति साऽपि ताम् । उक्त्वा प्रारभताऽलीकनिद्रां कर्तुं विशेषतः ॥२७७॥