________________
३८६
श्रीअजितप्रभुचरितम् सर्गः-६ 'किमियं जीविताधीश !, किङ्कर्यामप्रसन्नता ? । स्मरामि कञ्चनात्मीयं, न मन्तोर्लेशमप्यहम् ॥२५६।। अज्ञानाद्वा कृतं मन्तुं, प्रसद्य कथयाऽऽशु मे । क्षमयामि यथा नाथ !, लगित्वा तव पादयोः' ॥२५७|| एवमुक्तोऽप्यसौ यावन्न दत्ते किञ्चिदुत्तरम् । तावत् सा दीनवचनैर्विललापेति हृतहृत् ।।२५८।। 'प्रिय ! प्रसादं तावन्तमुपदर्थ्य क्षणात् कथम् । जातोऽसि दारुणोऽत्यन्तममुष्मिन् किङ्करीजने ? ॥२५९।। अदर्शितं वरं प्रेम, दर्शयित्वोज्झितं न तु । जात्यन्धो हि वरं देही, न तूत्खातावलोचनः ॥२६०॥ शीलस्खलनरूपं च, मुक्त्वाऽऽगः स्त्रीषु नाथ ! किम् । एतावान् युज्यते कर्तुं, कोपो धीमन् ! विचारय ॥२६१।। त्वत्तः परं नरं नाहं, नाथ ! स्वप्नेऽप्यचिन्तयम् । तत् प्रसीद प्रतिवचः, करुणाकर ! देहि मे ॥२६२।। उपेक्षसे च यदि मामेवं दीनप्रलापिनी[म्] । तदा न वीक्षसे भूयो,जीवन्तीं हृदयेश्वर !' ॥२६३।। तच्च शृण्वन्नपि श्रेष्ठी, मायिन्या सुतयाऽनिशम् । पुराऽपि रञ्जितोऽमंस्त, दुःशीलामेव वल्लभाम् ॥२६४॥ दध्यौ च मत्सुताया गी:, काऽपि व्यभिचचार न । निनिमित्तानि बालानां, वचांसि स्युश्च नान्यथा ॥२६५॥ इति प्रतिवचस्तस्मिन्नददानेऽखिलां निशाम् । साऽनैषीद्विलपन्त्येव, पतिता दुःखवारिधौ ॥२६६।।