SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ कृतकर्मविपाके वसुमतीकथा ३८५ साऽपि भीता ततः सम्यग्, वसुमत्यामवर्तत ।। यथा तथा स्वार्थसिद्धौ, चेष्टन्ते हि विशारदाः ॥२४५॥ कमलाऽथ गते काले, कियत्यपि पति भृशम् । वशंवदं परिज्ञाय, तस्यामासीच्छ्ल थादरा ॥२४६।। तथा दृष्ट्वा वसुमती, चिन्तयामास किं पितुः । निवेदयामि यदि वा, किमेतावन्निवेद्यते ? ॥२४७॥ असाध्यं नास्ति मद्बद्धः, किञ्चनापि महीतले । तत्तामेव प्रयुज्याऽहं,साधयिष्याम्यभीप्सितम् ॥२४८॥ अथो गतायामन्येद्युः, कमलायां बहिः क्वचित् । प्रदोषे वासवेश्मान्तः, स्थिते च निजवप्तरि ॥२४९।। स्वयं द्वारस्थिता मायाखनिर्वसुमती निजाम् । सखीमुद्दिश्य वचनं, प्रोवाचेति कथान्तरे ॥२५०॥ [युग्मम्] 'सखि ! नेयं विमाता मे, चोक्षा शाटिकया खलु । विधत्ते तप्तिमेतां च,[न] तातो बालिका न्वहम् ॥२५१॥ तत् किं करोमि ? किं वा मे, व्यर्थया चिन्तयाऽमुया । एति निद्रा तत् स्वपिमीत्युक्त्वा' सुष्वाप चैषका ॥२५२॥ सुधनुस्तु निशम्यैतत्, क्रुद्धो दौःशील्यशङ्कया । कपाटे सुदृढं दत्त्वा, स्थितवान् मन्दिरान्तरे ॥२५३॥ अत्रान्तरे कमलाऽपि, द्वारदेशमुपागता । प्राह सप्रणयं 'प्रेयन् !, द्वारमुद्घाटय द्रुतम्' ॥२५४।। कोपाक्रान्तस्तु सुधनुर्नास्याः प्रतिवचोऽप्यदात् । कमलाऽथाऽवदच्छङ्काशङ्कशल्यितमानसा ॥२५५॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy