________________
३८४
श्रीअजितप्रभुचरितम् सर्गः-६
दुष्कर्माणि पुनः काय-वाङ्-मनोभिः कुधीधनाः । विधायाऽनन्तदुःखानां, भवेयुर्भाजनं भवे ॥२३५।। शुभाशुभफलप्राप्ती, धर्माधर्मों पुराकृतौ । मुख्यौ हेतू परिज्ञेयौ, गौणाः सर्वे परे पुनः ॥२३६।। वार्यते मुक्तमर्यादः, सागरोऽपि समापतन् । अवश्यभोग्यं केनापि, न तु कर्मविजृम्भितम् ॥२३७॥ दुष्कृतं स्वल्पमप्युच्चैर्दारुणान्तं प्रजायते । इहार्थे वसुमत्याख्यावणीवपुत्रीनिदर्शनम् ॥२३८॥ तद्यथाश्रेष्ठी बभूव श्रावस्त्यां, सुधनुर्नाम सद्धनः । विष्णोः श्रीरिव तस्यासीदमृतश्रीरिति प्रिया ॥२३९॥ क्रमादजाय[त] तयोर्नाम्ना वसुमती सुता । मृद्वीकामृदुगी: स्फारलावण्यमयवर्मभृत् ॥२४०॥ कलानैपुण्यतो बालपण्डितेति प्रथां गता । साऽभूत् पित्रोः प्रमोदाब्धेरुल्लासे चन्द्रिकायिता ॥२४१॥ सध्रीच्येवाऽविरहिता, मायया सा निरन्तरम् । उपायैर्विविधैः सर्वजनचेतांस्यरञ्जयत् ॥२४२॥ अथ बाल्येऽपि माताऽस्याः, परलोकमुपेयुषी । श्रेष्ठी च कमलानामस्त्रियमन्यां व्यवाहयत् ॥२४३।। अभ्यधत्त च तां 'रे चेत्, सुतां मे निजदेहवत् । न पालयसि तत् कार्य, भवत्या मे न किञ्चन' ॥२४४॥