________________
भगीरथस्य अयोध्यां प्रति गमनम्
३८३
पूर्वं यज्ज[हनु नाऽऽनीता, प्रथिता जाह्नवीति तत् । कृष्टा भगीरथेनेति, गङ्गा भागीरथीत्यभूत् ॥२२४।। दृग्विषोरगदग्धानां, सगरात्मभुवां तदा । अस्थीनि तेन गङ्गायाः, प्रवाहेणाऽब्धिमाश्रयन् ॥२२५।। दध्यौ च जह्वभूः साधु, पितृणामस्थिसंहतिः । गङ्गयाऽब्धि गता नेतस्ततोऽथ प्रपतिष्यति ॥२२६।। तदा पितृणामस्थीनि, जलेऽक्षिप्यन्त तेन यत् । इदानीमपि तल्लोकोऽध्वानं तमनुवर्त्तते ॥२२७॥ अथो भगीरथः पाथःकष्टात् त्रातै नैर्मुदा । स्तूयमानो रथारूढोऽवलत स्वपुरीं प्रति ॥२२८।। सैन्यरेणुभरच्छन्नमार्तण्डश्चण्डदोर्युगः । नमितानेकभूपालमौलिलालितशासनः ॥२२९॥ आगच्छन् वर्त्मनि प्राज्यपुण्यप्राग्भारराजितः । सोऽपश्यत् केवलज्ञानवर्यमेकं महामुनिम् ॥२३०॥ युग्मम् ॥ धन्यम्मन्यो रथातूर्णमुत्तीर्याऽऽर्यमतल्लिका । तं त्रिः प्रदक्षिणीकृत्य, ननामाऽथ महामतिः ॥२३१।। न्यषदच्च यथास्थानं, विनयाद्रचिताञ्जलिः । श्रोतुं पीयूषदेशीयां, देशनां तस्य भक्तिभाक् ॥२३२॥ आदिदेश परार्थैकपरः शम[व]तां वरः । अपारभवनिस्तारकारकं तत्त्वमुज्ज्वलम् ॥२३३॥ अहो ! मनो-वचः-कायैः, सत्कर्मण्येव कोविदाः ! । यतध्वं यदि काङ्क्षाऽस्ति, सौख्ये स्वर्गापवर्गजे ॥२३४॥