SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ श्री अजितप्रभुचरितम् सर्गः ६ ३८२ दर्पो दुर्यशसां कर्त्ता, हर्ता सकलसम्पदाम् । अन्वयस्याऽपि संहर्त्ता, प्रहर्त्ता धर्मवर्ष्मणः ॥२१४॥ विनयः सम्पदां मूलं, कुलिशः क्लेशभूभृताम् । सौख्यद्रुमाणां पाथोदो, भास्वान् गुणसरोरुहाम् ॥ २१५ ॥ ततो विनयिना वत्स !, त्वया शक्तिमताऽपि हि । वर्ज्यो दलितदर्पेण, नागादीनामुपद्रवः ॥२१६॥ सुराणामसुराणां च त्वया शश्वद्यथोचितम् । उपचारे वर्त्तितव्यं, विघ्नव्यूहनिवृत्तये ॥ २१७|| तथेति चक्रिणः शिक्षां, तां प्रपद्य प्रणम्य च । चमूवृतोऽचलद्दण्डरत्नमादाय जह्रुभूः || २१८ | क्रमादष्टापदं प्राप्त:, स्मृत्वाऽथ ज्वलनप्रभम् । गन्ध-मालाद्युपचारपरश्चक्रे तपोऽष्टमम् ॥ २१९ ॥ उपस्थितमथो नागराजं जल्पितवान् प्रधीः । नयेऽब्धि त्वन्मतेनेमां, गङ्गां देशविनाशिनीम् ॥२२०॥ वाञ्छितं कुर्वतस्तेऽस्तु, निर्विघ्नमित्यहीशितुः । वाचं श्रुत्वा स मुदितो, निर्ममेऽष्टमपारणम् ॥२२१॥ ततः करान्तरस्फूर्जद्दण्डरत्नकृताध्वना । भगीरथो महावीर्यः, समाकृष्य सरिद्वराम् ॥२२२॥ पूर्वपाथोनिधिं निन्ये, तत्तीर्थं तत्प्रभृत्यपि । गङ्गासागर इत्यासीत्, सर्वलोकेषु विश्रुतम् ॥ २२३॥ युग्मम् ॥ १. त्वदनुज्ञया ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy