________________
३९५
गिरा कृतकर्मविपाके अशोकश्रीकथा उच्छृङ्खलतया तस्मादविचार्य मनीषिभिः । यत्किञ्चन न वक्तव्यमायतौ दुःखदं वचः ॥३५४।। श्रूयते हि पुरा पुंसा, केनचित् ज्ञानवान् मुनिः । पृष्टो यद्भगवन्नस्ति, पुत्री मे बन्धुराकृतिः ॥३५५।। नामतः सा त्वशोकश्रीरकस्मादपरेद्यवि । आक्रान्ता विविधै रोगैः, परं दौःस्थ्यमुपाययौ ॥३५६॥ ज्वरो महान् दृशोः पीडा, कुक्षिशूलं गलग्रहः । शिरोतिश्चेति केचन, व्या[ध]यस्तामुपाद्रवन् ॥३५७।। अङ्गखेदं वक्त्रशोषं, शून्योक्तिं करकम्पनम् । दधती सा स्वबन्धूनां, महदुःखमजीजनत् ॥३५८॥ प्रश्नग्रहार्चनदेवीपूजामन्त्रादि वाऽपरम् । विविधं विदधे किन्तु, गुणः स्वल्पोऽपि नाऽभवत् ॥३५९।। ज्ञानिन् ! को हेतुरत्रेति, कृपां कृत्वा निवेदय । ततो ज्ञान्याख्यदस्याः प्राग्जन्मकर्म निशम्यताम् ॥३६०॥ अस्माद्भवात् तृतीयेऽभूद्, भवे कुरुमतीत्यसौ । घृतर्पितबहिर्वज्ज्वलन्ती सततं रुषा ॥३६१।। दुग्धेऽन्यदौतुना पीतेऽनयोचे रोषतो वधूः । ग्रस्ताऽभूः किमु शाकिन्या, यदुग्धं न हि रक्षितम् ॥३६२॥ तां च तद्वचनोभ्रान्तां, तद्गृहे छगणोच्चयम् । स्थापयन्ती छलं लब्ध्वा, मातङ्गी द्रुतमग्रहीत् ॥३६३॥ १. 'छाणा' इति भाषायाम् ।