________________
३९६
श्रीअजितप्रभुचरितम् सर्गः-६ शून्योक्ति-न्यनिरीक्षा-प्राकृतास्मृत्यादिलक्षणैः । विवेद मान्त्रिकस्तस्याः, शाकिनीदोषमुल्वणम् ॥३६४॥ ततः स यन्त्रमालिख्य, मन्त्रशक्तिसुदुर्द्धरः । तापयत्यनले यावत्तावन्मुक्तकचोच्चया ॥३६५॥ दह्ये दह्ये हहेत्युच्चै, रटन्ती कटुनिःस्वनम् । मातङ्गी तत्र साऽऽयासीत्, सहक्कं तेन चोच्यत ॥३६६।। [युग्मम्] क्व त्वयेयमुपात्ता रे !, साऽपि भीता ततोऽवदत् । श्वश्रूगिरा गृहीता त्वगिरा मुक्ता तु साम्प्रतम् ॥३६७।। परं मे जीवितं रक्षेस्ततस्तां धरणीधवः । लाञ्छित्वा व्यमुचद्वाक्यमलद्ध्यं मान्त्रिकस्य हि ॥३६८।। ततः प्रोचुर्जनाः कालजिह्वा कुरुमती ह्यसौ ।। तदालप्या न केनापि, तच्छ्रुत्वोद्विविजे च सा ॥३६९।। लात्वा द्रुतं व्रतं मृत्वा, स्वर्गता प्रच्युता ततः । तवेयमभवत् पुत्री, प्राग्दुर्वाक्कर्मतोऽधुना ॥३७०।। खदेवीदूषिता जज्ञे, तदानय ममाऽन्तिकम् । यथा नीरुग् भवेत् प्राच्यभवान् स्मृत्वा च बुध्यते ॥३७१॥ [युग्मम्] ततः सोऽपि मुनेः पार्श्वेऽनयत्तां स्वसुतां तदा । मुनेर्दर्शनतोऽयासीत्, क्रन्दित्वा च खदेवता ॥३७२।। साऽथ श्रुत्वा निजं प्राच्यवृत्तं जातिस्मृतेः पुनः । प्रत्यक्षमिव संवीक्ष्य, वैराग्यं भेजुषी भृशम् ॥३७३।। १. आकाशदेवी ।