SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ कृतकर्मविपाके वसुमतीकथा गुरोः पुरस्ततश्चाऽऽशु, तदालोच्य स्वदुष्कृतम् । दुष्कर्ममथनं धर्ममर्हदुक्तमशिश्रियत् ॥३७४॥ विज्ञाय कुरुमत्यास्तदेवं दुर्वाक्यजं फलम् । दुःखाद् भीतिं दधानाः स्त, भाषासमितिशालिनः' ॥३७५॥ इति श्रुतवचाः साधुमूचे कमलिनी ततः । 'अलभेऽहं मुने ! प्रेयोवियोगं केन कर्मणा ?' ॥ ३७६ ॥ मुनिः प्राह 'वसुमतीभवे यत् कमला त्वया । यामान् द्वादश कान्ताऽवहेलादु:खे प्रपातिता ॥ ३७७|| प्राप्ताऽसि द्वादशाब्दानि, तदुःखं विरहोद्भवम् । कृतं हि कर्म नाऽभुक्त्वा, छुटत्यङ्गी कदाचन' ||३७८|| सविस्तरं मुनेर्वक्त्रात्, तच्छ्रुत्वा दम्पती इमौ । संविग्नौ वेश्मनो भारे, न्यास्थतां ज्येष्ठमङ्गजम् ॥३७९ ॥ धनं धर्मे व्ययित्वाऽथ पूजयित्वा जिनेश्वरान् । तौ सद्यः प्रतिपेदाते, दान्ते[न] मनसा व्रतम् ॥३८०॥ सद्ध्यानध्यायिनौ तीव्रं, तप्यमानौ तपश्च तौ । प्रान्ते सानशनौ कल्पे, दशमेऽभवतां सुरौ ॥ ३८१॥ वसुमत्या इदं वृत्तं, र्विमर्षद्भिर्बुधोत्तमैः । सावधानैः सदा पापयोगोद्योगो निवार्यताम् ||३८२|| इति कृतकर्मविपाके वसुमतीकथा ॥ श्री ॥ ग्रं. १४९ ॥ एवं केवलिनः साधोगिरं श्रुत्वा भगीरथः । अप्राक्षीद्युगपत् किं मे, प्रमीताः पितरः प्रभो ! ? ||३८३॥ १. 'विवर्द्धद्धि' इति पु. प्रे. । ३९७
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy