________________
जन्वादिसगरपुत्राणां भगीरथस्य च पूर्वभवाः
दुःखखानिं भवं भ्रान्त्वा, कृत्वा सत्कर्म किञ्चन । अभवन्नन्दना जह्नुमुख्याः सगरचक्रिणः || ३९४॥ स पुनः कुम्भकारोऽपि, विपन्नः कालयोगतः । वणि विराटदेशेऽभूद्विदधे धर्मकर्म च ॥ ३९५ ॥ ततो मृतो नृपो जज्ञे, प्राप्य दीक्षां सुरोऽभवत् । च्युत्वा भगीरथाख्यश्च, जह्रोः पुत्रोऽभवद् भवान् ॥३९६॥ तेनाऽत्युग्रविपाकेन, सङ्घलुण्ठनकर्मणा ।
अभवन् युगपद्भस्मसाज्जह्वप्रमुखा इमे ||३९७||
तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा ।
न दग्धोऽसि कृतिश्रेष्ठ !, तंत्रेवाऽत्राऽपि जन्मनि ॥ ३९८॥
भगीरथो निशम्येति, विरक्तोऽपि भवाद्भृशम् ।
मा भूत् पितामहोऽत्यन्तं दुःखीत्यादत्त न व्रतम् ॥३९९ ||
"
ततः केवलिनं नत्वा दिव्यस्यन्दनमाश्रितः । ग्रामाकरपुरादीनि, वीक्षमाणः सकौतुकम् ॥४००॥ स्तुत्यान् स्तुवन्नमन्नम्यान्, पूज्यांश्च परिपूजयन् । स्थापयन् पृथिवीपीठे, हैरहाससितं यशः ॥ ४०१ ॥
उल्लसन्नवतारुण्या, नरनाथकुमारिकाः । स्पृहयन्तीः सलावण्याः, स्वीकुर्वाणः पदे पदे ॥४०२|| प्राभृतानि गजा-ऽश्वादीन्यनेकानि महीश्वरैः । ढौकितान्युररीकुर्वन्, प्रसन्नाननपङ्कजः ॥४०३॥
१. तत्र - कुम्भकारभवे इव अत्राऽपि । २. शिवहास्यवदुज्ज्वलम् ।
३९९