SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ जन्वादिसगरपुत्राणां भगीरथस्य च पूर्वभवाः दुःखखानिं भवं भ्रान्त्वा, कृत्वा सत्कर्म किञ्चन । अभवन्नन्दना जह्नुमुख्याः सगरचक्रिणः || ३९४॥ स पुनः कुम्भकारोऽपि, विपन्नः कालयोगतः । वणि विराटदेशेऽभूद्विदधे धर्मकर्म च ॥ ३९५ ॥ ततो मृतो नृपो जज्ञे, प्राप्य दीक्षां सुरोऽभवत् । च्युत्वा भगीरथाख्यश्च, जह्रोः पुत्रोऽभवद् भवान् ॥३९६॥ तेनाऽत्युग्रविपाकेन, सङ्घलुण्ठनकर्मणा । अभवन् युगपद्भस्मसाज्जह्वप्रमुखा इमे ||३९७|| तन्निवारणरूपेण, त्वं पुनः शुभकर्मणा । न दग्धोऽसि कृतिश्रेष्ठ !, तंत्रेवाऽत्राऽपि जन्मनि ॥ ३९८॥ भगीरथो निशम्येति, विरक्तोऽपि भवाद्भृशम् । मा भूत् पितामहोऽत्यन्तं दुःखीत्यादत्त न व्रतम् ॥३९९ || " ततः केवलिनं नत्वा दिव्यस्यन्दनमाश्रितः । ग्रामाकरपुरादीनि, वीक्षमाणः सकौतुकम् ॥४००॥ स्तुत्यान् स्तुवन्नमन्नम्यान्, पूज्यांश्च परिपूजयन् । स्थापयन् पृथिवीपीठे, हैरहाससितं यशः ॥ ४०१ ॥ उल्लसन्नवतारुण्या, नरनाथकुमारिकाः । स्पृहयन्तीः सलावण्याः, स्वीकुर्वाणः पदे पदे ॥४०२|| प्राभृतानि गजा-ऽश्वादीन्यनेकानि महीश्वरैः । ढौकितान्युररीकुर्वन्, प्रसन्नाननपङ्कजः ॥४०३॥ १. तत्र - कुम्भकारभवे इव अत्राऽपि । २. शिवहास्यवदुज्ज्वलम् । ३९९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy