Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 333
________________ ३३० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१५१ त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतानिच त्रीणि मिलितानिद्विक्रोशोच्चानि भवन्तिकोशविस्ती निअतएव प्रान्त द्विक्रोशबाहल्यात्पीठात् उत्तरतामवतरतांचसुखावहद्वारभूतानिवर्णकश्च तावद्वक्तव्योयावत्तोरणानि, तस्सण'मित्यादि, व्यक्तं, 'तीसे णमित्यादि, तस्यामणिपीठिकाया उपरिअत्जम्बूःसुदर्शनानाम्नीप्रज्ञप्ता, अष्टयोजनान्यूर्वोच्चत्वेन अर्द्धयोजनमुद्वेधेन-भूप्रवेशेन, अथास्या एवोच्चत्वस्याष्ट योजनानि विभागतो द्वाभ्यां सूत्राभ्या दर्शयति____ 'तीसे ण मित्यादि, तस्या जम्ब्वाः स्कन्धः-कन्दादुपरितनःशाखाप्रभवपर्यन्तोऽवयवो द्वे योजने ऊर्बोच्चत्वेनार्द्धयोजनंबाहल्येन-पिण्डेन तस्याःशाला विडिमापरपर्यायादिप्रसृता शाखा-मध्यभागप्रभवा ऊर्ध्वगता शाखा षड् योजनान्यूर्वोच्चत्वेन, तथा बहुमध्यदेशभागे प्रकरणाजम्बूरितिगम्यम्, अष्टौ योजनान्यायामविष्कम्भाभ्यां तान्येवास्याः स्कन्धोपरितनभागाचतसृष्वपि दिक्षुप्रत्येकमेकैका शाखा निर्गताताश्च क्रोशोनानिचत्वारियोजनानि, तेन पूर्वापरशाखादैर्ध्यस्कन्धबाहल्सम्बन्ध्यर्द्धयोजनमीलनेनोक्तसङ्ख्यानयनं, बहुमध्यदेशभागश्चात्र व्यावहारिको ग्राह्यः, वृक्षादीनांशाखाप्रभवस्थाने मध्यदेशस्यलोकैर्व्यवह्रियमाणत्वात्, पुरुषस्य कटिभाग इव, अन्यथा विडिमाया द्वियोजनातिक्रमे निश्रयप्राप्तस्य मध्यभागस्य ग्रहणे पूर्वापरशाखाद्वयविस्तारस्य ग्रहणसम्भवः विषमश्रेणिकत्वात्, अथवा बहुमध्यदेशभागःशाखानामिति गम्यते, कोऽर्थ : ?-यतश्चतुर्दिक्शाखामध्यभागस्तस्मिन्नित्यरर्थः, अष्टयोजनानयनं तु तथैव, उच्चत्वेन तुसवग्रिण-सर्वसङ्ख्यया कन्दस्कन्धविडिमापरिमाणमीलनेसातिरेकाण्यष्टौयोजनानीति, अथास्या वर्णकमाह-'तीसेण मित्यादि, तस्याजम्ब्वाअयमेतद्रूपोवर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि यस्याः सा वज्रमयमूला तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्वविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पतद्वयकर्मधारयः, यावत्पदात् चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः, कियत्पर्यन्तमित्याह-अधिकमनोनिवृतिकरी प्रासादीया दर्शनीया इत्यादि । अथास्याः शाखाव्यक्तिमाह 'जंबूए ण'मित्यादि, जम्ब्बाः सुदर्शनायाः चतुर्दिशि चतस्रः शालाः-शाखाः प्रज्ञप्ताः, तासांशालानांबहुमध्यदेशभागे उपरितनविडिमाशालायामित्यध्याहार्यंजीवाभिगमेततादर्शनात्, शेषंसुलभंवैतादयसिद्धकूटगतसिद्धायतनप्रकरणतो ज्ञेयमित्यर्थः, अत्र पूर्वशालादौ यत्र यदस्ति तत्र तद्वक्तुमाह-'तत्थ णमित्यादि, तत्र-तासु चतसृषु शालासु या सा पौरस्त्या शाला सूत्रे प्राकृतत्वात्पुंस्त्वनिर्देशः अत्रभवनं प्रज्ञप्तं क्रोशमायामेन ‘एवमेवेति सिद्धायतनवदिति, अर्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुच्चत्वेनेति प्रमाणं द्वारादिवर्णकश्च वाच्यः, नवरमत्र शयनीयं वाच्यं, शेषासुदाक्षिणात्यादिशालासुप्रत्येकमेकैकभावेन वयःप्रासादावतंसकाः सिंहासनानि सपरिवाराणि च बोद्धव्यनितेषांप्रमाणंचभवनवत्, तत्र खेदानोदाय भवनेषुशयनीयानप्रासादेषुत्वास्थानसभा इति, ननुभवनानि विषमायामविष्कम्भानि पद्मद्रहादिमूलपद्मभवनादिषुता दर्शनात्प्रासादास्तु समायामविष्कम्भाः दीर्घवैतादयकूटगतेषु वृत्तवैताढ्यगतेषु विजयादिराजधानीगतेषुअन्येष्वपि विमानादिगतेषुचप्रासादेषुसमचतुरनत्वेनसमायामविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते?, उच्यते। "ते पासाया कोसं समूसिआ अद्धकोसविच्छिन्ना' इत्यस्य पूज्यश्रीजिनभद्रगणिक्ष Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564