Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४४६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५८ मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तृतीयमण्डलादारभ्य तत्तन्मण्डलसङ्ख्यया षट्त्रिंशद्गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यां एवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायांद्वयशीत्यधिकेन शतेन, इत्थंचगुणयित्वायल्लभ्यतेतध्रुवराशेरपनीय शेषेणध्रुवराशिना सहितं पूर्वरमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्र मण्डले द्रष्टव्यं ।
यथा तृतीये मण्डले षट्त्रिंशदेकेन गुण्यते, 'एकेन च गुणितं तदेव भवतीति जाता षट्त्रिंशदेव साध्रुवराशेरपनीयते, जातं शेषमिदं-पञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्य च षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागाः एतेन पूर्वमण्डलगत दृष्टिपथप्राप्तापरिमाणंएकत्रिंशत्सहस्राणिनवशतानिषोडशोत्तराणि योजनानामेकोनचत्वारिंशदेवकषष्टिभागायोजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवंरूपसहितं क्रियते कृते च तृतीये मण्डले यथोक्तं दृष्टिपथप्राप्ततापरिमाणं भवति तच्च प्रागेव प्रदर्शितं, चतुर्थे मण्डले षट्त्रिंशद द्वाभ्यां गुण्यते गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमणडलगतं दृष्टिपथप्राप्ततापरिमाणं सहितंक्रियते, ततइदंतत्रमण्डले दृष्टिपथप्राप्ततापरिमाणंभवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः एकादशैकषष्टिभागाः एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा षट्त्रिंशद् द्व्यशीत्यधिकेन शतेन गुण्यते ।
तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्स्मण्डलस्यद्व्यशीत्यधिकशततमत्वात्, ततोजातानि पञ्चषष्टिः शतानि द्विपञ्चाशदधिकानि, तेषामेकषष्ट्या मागे हृते लब्धं सप्तोत्तरंशतं षष्टिभागानां शेषाः पञ्चविंशति, एतत्पञ्चाशीतिर्योजनानि नवषष्टिभागायोजनस्य एकस्यषष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवंरूपा ध्रुवराशेःशोध्यते,जातानिपश्चात् त्र्यशीतिर्योजनानि द्वाविंशति षष्टिभागायोजनस्य एकस्यषष्टिभागस्य सत्काः पञ्चत्रिंशदेक-षष्टिभागाः,इहषट्त्रिंशदेकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते, एतच्च प्रागेवोपदर्शितं, तच्च कलायान्यूनत्वंप्रतिमण्डलं भवत् यदाद्वयशीत्यधिकशततमण्डले एकत्र पिण्डितं सत्चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते ततस्ते भूयः प्रक्षिप्यन्ते ततो जातमिदंत्र्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागाः योजनस्य एकस्य षष्टिभागस्य सत्काद्विचत्वारिंशदेकषष्टिभागाः, एतेन सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिकं योजनानां सप्तपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः इत्येवंरूपसहितं क्रियतेततोयथोक्तंसर्वाभ्यन्तरे मण्डले सृष्टिपथप्राप्ततापरिमाणंभवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वेशतेत्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागायोजनस्य एवं दृष्टिपथप्राप्ततायांकतिपयेषु मण्डलेषुसातिरेकाणिपञ्चाशीतिर योजनानि अग्रेतनेषुचतुरशीति २ पर्यन्तेयथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् २ तावद्वक्तव्योयावत् सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति।
इदं च सर्वाभ्यन्तरमण्डलं सर्वबाह्यानन्तरात् मण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं, प्रतिमण्डलं चाहारात्रगणनादहोरात्रोऽपित्र्यशीत्यधिकशततम-स्तेनायमुत्तरायणस्य चरमो दिवस इत्याद्यभिधातुमाह-“एस णं दोचे छम्मासे' इत्यादि, एष द्वितीयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564