Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
वक्षस्कारः -७
४६७
गतराशौ द्वासप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च चूर्णिकाभागं प्रक्षिप्य यथोक्तं मानमानेतव्यं, त्रीणि योजनलक्षाणिपञ्चदश योजनसहस्राणि पञ्च चैकोनपञ्चाशदधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इह पूर्वमण्डलपरिरयराशौ द्वे योजनशते त्रिंशदधिके प्रक्षिप्योपपत्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह
'एवं खलु' इत्यादि, पूर्ववत्, निष्क्रामंश्चन्द्रो यावत्पदात् 'तयानंतराओ मंडलाओ तयानंतरं मंडल' मितिग्राह्यं, संक्रामन् २ द्वासप्ततिं २ योजनानि योजनसंख्यापदगतावीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेनैकपञ्चाशतं एकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् २ द्वे द्वेत्रिंशदधिके योजनशते रिरयवृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतीति ।
सम्प्रति पश्चानुपूर्व्या पृच्छति - 'सव्वबाहिरए ण 'मित्यादि, सर्वबाह्यं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम् ?, गौतम ! एकं योजनलक्षं षट् षष्ट्रानिषष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तु जंबूद्वीपो लक्षं उभयोः प्रत्येकं त्रीणि योजनशतानि त्रिंशदधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादश सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, अत्रोपपत्ति जंबूद्वीपपरिधी षष्ट्यधिकषट्शतपरिधौ प्रक्षिप्ते भवति यथोक्तं मानं । अथ द्वितीयं बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उत्तरसूत्रे गौ० एकं योजनलक्षं पञ्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वा षट् चूर्णिकाभागान् आयाम-विष्कम्भाभ्यां, अत्रोपपत्ति पूर्वराशेद्वसप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एकं भागमपनीय कर्त्तव्या, त्रीणि योजनलक्षाणि अष्टादश सहस्राणि पञ्चाशीतिं योजनानि परिक्षेपेण, सर्वबाह्यमण्डपरिधेर्बे शते त्रिंशदधिके योजनानामपनयने यथोक्तमानं ।
अथ तृतीयं 'बाहिरतच्चेण 'मित्यादि, बाह्यतृतीयं भदन्त ! चन्द्रमण्डलं यावच्छब्दात् सर्वं प्रश्नसूत्रं ज्ञेयं, उत्तरसूत्रे - गौतम! एकं योजनलक्षं पञ्च चतुर्दशोत्तराणि योजनशतानि एकोनविंशतिं चैकषष्टिभागानू योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा पञ्च चूर्णिकाभागान् आयमविष्कम्भाभ्यां, अत्र सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्ततियोजनादिकं राशिमपनीय कार्या त्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पञ्चपञ्चाशदधिकानि योजनशतानि परिक्षेपे, उपपत्तिस्तु पूर्वराशेर्देव शते त्रिंशदधिके अपनीय कार्या । अथ चतुर्थादिमण्डलेष्वतिदेशमाह - 'एवं खलु' इत्यादि, पूर्ववत्, प्रविशंश्चन्द्रो यावत्पदात् 'तयानंतराओ मंडलाओ तयानंतरं मण्डल 'मिति ग्राह्यं, संक्रामन् २ द्वासप्ततिं २ योजनानि एकपञ्चाशतमेकपंचाशतं चैकषष्टिभागान् योजनस्य एकं एकषष्टिभागं च सप्तधा छित्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिं निवर्द्धयन् २ हापयन् २ इत्यर्थः द्वे द्वे त्रिंशदधिके योजनशते परिरयवृद्धिं निवर्द्धयन् २ हापयन् हापयन्नित्यर्थः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति ॥ अथ मुहूर्त्तगतिप्ररूपणा
मू. (२७५) जया णं भंते ! चंदे सव्वब्धंतरमण्डलं उवसंकमित्ता चारं चरइ तया णं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564