Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 488
________________ वक्षस्कारः -७ इत्युच्यते । इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं त्र्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, कथमिति चेत्, उच्यते-चन्द्रमासमानं दिन २९/ एतद्रूपं त्रयोदशभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि त्रीणि शतानि दिनानां षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य द्वाषष्टिभागास्ततो दिनानयनार्थं द्वाषष्ट्या भागो हियते, लब्धानि षड् दिनानि तानि च पूर्वोक्तदिनेषु मील्यन्ते जातानि त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, ततो वर्षे द्वादश मासा (इति मासा) नयनाय द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च द्वादशानां भागं न प्रयच्छंति तेन यदि एकादश चतुश्चत्वारिंशद् द्वाषष्टिभागमीलनार्थं द्वाषष्ट्या गुण्यन्ते तदा पूर्णो राशिर्न त्रुटयति शेषस्य विद्यमानत्वात् तेन सूक्ष्मेक्षिकार्थं द्विगुणीकृतया द्वाषष्ट्या चतुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जाते १३६४ चतुश्चत्वारिंशद् द्वाषष्टिभागा अपि सवर्णनार्थं द्विगुणीक्रियन्ते कृत्वा च मूलराशी प्रक्षिप्यन्ते जातं १४५२, एषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां एतावदभिवर्द्धितमासप्रमाणं । नाक्षत्रादिसंवत्सरमानं, स एष प्रमाणसंवत्सर इति निगमनवाक्यं, एषांच मध्ये ॠतुमासऋतुसंवत्रावेव लोकैः पुत्रवृद्धिकलान्तरवृद्धयादिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात्, यदाह 119 11 - ४८५ “कम्मो निरंसयाए मासो ववहारकारगो लोए । साउ संसयाए ववहारे दुक्करा धेत्तु ॥" अत्र व्याख्या - आदित्यादिसंवत्सरमासानां मध्ये कर्मसंवत्सरसम्बन्धी मासो निरंशतयापूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारकः स्यात्, शेषास्तु सूर्यादयो व्यवहारे ग्रहीतुं दुष्कराः साशंतया न व्यवहारपथमवतरन्तीति, निरंशता चैवं - षष्टि पलानि घटिका ते च द्वे मुहूर्तेः ते च त्रिंशदहोरात्रः ते च पञ्चदश पक्षः तौ द्वौ मासः ते च द्वादश संवत्सर इति, शास्त्रवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः, तथाहि - अत्र नक्षत्रमासप्रयोजनं सम्प्रदायगम्यं । 119 11 “वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि । कुर्वीत वास्तुप्रारम्भं, न तु शेषेषु सप्तसु ।।" इत्यादी चन्द्रमासस्य प्रयोजनं, ॠतुमासस्य तु पूर्वमुक्तं, 'जीवे सिंहस्थे धन्विमीनस्थितेऽर्के, विष्णौ निद्राणे चाधिमासे नलग्नं' इत्यादौ तु सूर्यमासाभिवर्द्धितमासयोरिति, पूर्वं नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः अत्र तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति न पौनरुक्त्यं विभाव्यम्त, निशीथभाष्यकाराशयेन 'नक्षत्रचन्द्रसूर्याभिवर्द्धितरूपकं मासपञ्चकं तदद्वादशगुणः संवत्सर' इति संवत्सरपञ्चकमेव युक्तिमत्, अन्यथा उद्देशाधिकारे नक्षत्रसंवत्सरोद्देशकरणं युगसंवत्सराधिकारे चन्द्राभिवर्द्धितयोरुद्देशकरणं पुनः प्रमाणसंवत्सराधिकारे तेषामेव प्रमाणकरणमित्यादिकं गुरवे गौरवाय भवति, यत्तु स्थानाङ्गचन्द्रप्रज्ञप्त्यादावत्र चोपाङ्गे इत्थं संवत्सरपञ्चकवर्णनं तद् बहुश्रुतगम्यम् । अथ लक्षणसंवत्सरप्रश्नमाह - लक्षणसंवत्सरो भदन्त कतिविधः प्रज्ञप्तः ?, गौ० पंचविधः प्रज्ञप्तः, नक्षत्रादिभेदात्, तद्यथा मू. (२७९) “समयं नक्खत्ता जोगं जोअंति समयं उऊ परिणामंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564