Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 511
________________ - ५०८ जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् ७/३३१ द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात् त्रिचत्वारिंशत्तेभ्यः एकं रूपमादाय सप्तषष्टिभागीक्रियते ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिभागास्तेभ्यः षट्षष्टि शुद्धाः स्थितौ पश्चाद् द्वौ सप्तषष्टिभागौ, ततस्त्रिंशता मुहूर्तः श्रवणः शुद्धः स्थिताः पश्चान्महूर्ताः षड्विंशति,ततइदमागतंधनिष्ठानक्षत्रस्य त्रिषुमुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसंख्येषु द्वाषष्टिभागेषु एकस्यच द्वाषष्टिभागस्य पञ्चषष्टिसंख्येषु सप्तषष्टिभागेषु शेषेषुप्रथमापौर्णमासीसमाप्तिमियर्ति,एवं पञ्चानां युगभाविनीनां श्राविष्ठीनां पूर्णिमानां कचित् श्रवणेन कचिद् धनिष्ठय च परिसमाप्तिावनीया । तथा प्रौष्ठपदीमिति-भाद्रपदी भदन्त ! पौर्णमासी कति नक्षत्राणि योगं योजयन्ति ?, भगवानाह-गौतम! त्रीणि नक्षत्राणियोजयन्ति, तद्यथा-शतभिषक् पूर्वभद्रपदाउत्तरभद्रपदा, आसां पञ्चानामपि युगभाविनीनामुक्तनक्षत्राणां मध्ये अन्यतरेण परिसमापनात्। आश्वयुर्जी भदन्त! पौर्णमासींकति नक्षत्राणियोजयन्ति?,गौतम! द्वेयोजयतः-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुर्जी पौर्णमासी परिसमापयति परं तौष्ठपदीमपि, लोके च प्रौष्ठपद्यामेव तस्य प्राधान्य तन्नाम्ना तस्याः अभिधानाद् अतस्तदिह न विवक्षितमित्यदोषः, अतो वे समापयत इत्युक्त, आसां बहीनां युगभाविनीनामुक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात्, तथा कार्तिकी पौर्णमासी द्वे नक्षत्रे, तद्यथा-भरणी कृत्तिका च, इहीप्यश्विनीनक्षत्रं कांचित्कार्तिकी पौर्णमासी परिसमापयति परंतदाश्वयुज्यांपौर्णमास्यां प्रधानमितीह न विवक्षितमित्यदोषः। अतोऽत्रापि द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यत्रेण परिसमापनात, तथा मार्गशीर्षी, पौर्णमासी द्वेनक्षत्रे, तद्यथा-रोहीणी मृगशिरश्च, आसांपंचानामपि युगभाविनीनांउक्तनक्षत्रयोर्मध्येऽन्यतरेणपरिसमापनात्, तथा पौषींपौर्णमासींत्रीणिनक्षत्राणि, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, आसां युगमध्येऽधिकमाससम्भवेन षण्मामपि युगभाविनीनां उक्तनक्षत्राणां मध्येोन्यतरेण परिसमापनात्, तथा माघी पौर्णमासी । नक्षत्रे, तद्यथा-अश्लेषा मघा चशब्दात् पूर्वफल्गुनीपुष्यौ ग्राह्यौ, तेनासां युगभाविनीनां पञ्चानामपि मध्ये काञ्चिदश्लेषा काञ्चिन्मघा काञ्चित् पूर्वफल्गुनी कांचित्पुष्यश्च परिसमापयति, तथा फाल्गुनी पौर्णमासी द्वे नक्षत्रे, तद्यथा-पूर्वफल्गुनी उत्तरफल्गुनी च, आसां पंचानामपि युगमाविनीनां उक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्। तथा चैत्री पौर्णमासी द्वे नक्षत्रे, तद्यथा-हस्तः चित्रा च, आसां पंचानामपियुगभाविनीनामुक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा वैशाखी द्वे, तद्यथा-स्वातिविशाखा चशब्दादनुराधा, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पूर्णिमास्यां प्रधाना ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेतिअतो द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तमक्षत्रयोर्मध्येऽन्यतरेण समापनात् । तथा ज्येष्ठामूलीं पौर्णमासीं त्रीणि, तद्यथा-अनुराधा ज्येष्ठा मूलं च, आसां पंचानामपि युगभाविनीनां उक्तनक्षत्राणां मध्येऽन्यतरेण समापनात्, तथा आषाढी पौर्णमासी द्वे, तद्यथा-पूर्वाषाढा उत्तराषाढाच, आसांयुगान्ते अधिकमाससम्भवेन षण्णामपि युगभाविनीनां उक्तन-क्षयोर्मध्येऽन्यतरेण समापनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564