Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 533
________________ ५३० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३५१ चत्तारि अग्गमहिसीओ प० तं० - चंदप्पभा दोसिनाभा अचिमाली पभंकरा, तओ णं एगमेगा देवी चत्तारि २ देवीसहस्साइं परिवारो प०, पभूणं ताओ एगमेगा देवी अन्नं देवीसहस्सं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए । पहू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयनट्टगी अबाइअ जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरि - तए ?, गोअमा ! नो इणट्टे समट्टे, से केणट्टेणं जाव विहरित्तए ?, गो० ! चंदस्स णं जोइसिंदस्स० चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वइरामएसु गोलवट्टसमुग्गएसु बहूईओ जिनसकहाओ सन्निखित्ताओ चिट्ठति ताओ णं चंदस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जा, से तेणद्वेणं गोयमा ! नो पभूत्ति । पभू णं चंदे सभाएं सुहम्माए चउहिं सामाणिअसाहस्सीहिं एवं जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीएष नो चेव णं मेहुणवत्तिअं, विजया १ वेजयंती २ जयंती ३ अपराजिआ ४ सव्वेसिं गहाईणं एआओ अग्गमहिसीओ, छावत्तरस्सवि गहसयस्स एआओ, अग्गमहिसीओ वत्तव्वाओ, इमाइ गाहाहिंति वृ. 'चंदस्स ण 'मित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे चतसीऽग्रमहिष्यः, तद्यथा - चन्द्रप्रभा 'दोसिणाभ'त्ति ज्योत्स्नाभा अर्चिर्माली प्रभङ्करा, ततश्च चतुः सङ्ख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति ? - एकैका अग्रमहिषी चतुर्णां २ देवीसहस्राणां पट्टराज्ञी, अथ विकुर्वणासामर्थ्यमाह प्रभुः समर्थाणमिति वाक्यालङ्कारे 'ताओ 'त्ति वचनव्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथाविधा ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुं स्वाभाविकानि पुनरेवं-उक्तप्रकारेणैव सपूर्वापरमीलनेन षोडशदेवीसहस्राणि चन्द्रदेवस्य भवन्ति, चतस्नीऽग्रमहिष्य एकैका चात्मना सह चतुश्चतुर्देवीसहस्रपरिवारा, ततः सर्वसङ्कलने भवन्ति षोडश देवीसहस्राणि, इह यथा चरमेन्द्रादितुडिकवक्तव्यताधिकारे स्वस्वपरिवारसङ्ख्यानुसारेण विकुर्वणीयसङ्ख्या उक्ता तथैव जीवाभिगमादी चन्द्रदेवानामपि चतुः चतुःसहस्रस्वपरिवारानुसारेण चतुश्चतुर्देवीसहस्रविकुर्वणा दृश्यते अत्र तु न तथेति मतान्तरमवसेयं प्रस्तुतसूत्रादर्शलेखकवैगुण्यं वा ज्ञेयमिति, 'सेत्तं तुडिए' इति, तदेतत् चन्द्रदेवस्य तुटिकं - अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी- "तुटिकमन्तः पुरमुपदिश्यते” इति। अथ चतुर्दशं द्वारं प्रश्नयति- प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां सभायां तुटिकेनेति - अन्तः पुरेण सार्द्ध 'महया' इत्यादि प्राग्वत् विहर्त्तुमित्यन्वयः, अत्र काकुपाठात् प्रश्नसूत्रमवगन्तव्यं, भगवानाह - गौतम! नायमर्थः समर्थः, अथ केनार्थेन भदन्त ! एवमुच्यते- यावतकरणात् नो पभू चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहय - गीअवाइअणट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे' इति ग्राह्यं विहर्तुमिति, अत्रोत्तरसूत्रमाह - गौतम चन्द्रस्य ज्योतिषेन्द्रस्य चन्द्रावसंतके विमाने चन्द्राणां राजधान्यां सभायां सुधर्मायां माणवकनाम्नि चैत्यस्तम्भे- चैत्यवत् पूज्यः स्तम्भः चैत्यस्तम्भस्तस्मिन् वज्रमयेषु गोलवद्व तेषु समुद्गकेषु For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564