Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
वक्षस्कारः-७
१३१
सम्पुटरूपभाण्डेषुबह्वयोजिनसकथा-जिनसक्थीनि सन्निक्षिप्ताः-स्थापितास्तिष्ठन्ति ताश्चणमिति प्राग्वत्चन्द्रस्य अन्येषांच बहूनांदेवानां देवीनां चार्चनीयाश्चन्दनादिना यावत्करणाद्वन्दनीयाः स्तुतिभिर्नमस्यनीयाःप्रणामतः पूजनीयाः पुष्पैः सत्कारणीया वस्त्रादिभिः सन्माननीयाः प्रतिपत्तिविशेषैरिति ग्राह्यं, पर्युपासनीयाः कल्याणमित्यादिबुद्धया, अथ तेनार्थेन एवमुच्यते-गौतम ! न प्रभुरिति, जिनेष्विव जिनसस्थिष्वपि तेषां बहुमानपरत्वेनाशातनाभीरुत्वादिति, अथैवं सति कल्पाती-तदेवानामिवास्यापि अप्रविचारता उत नेत्याशङ्कामपाकर्तुमाह
__'पभूणमिति, प्रभुश्चन्द्रसभायां सुधर्मायां चतुर्भि सामानिकसहस्र एवमित्युक्तप्रकारेण यावत्करणात् चतसृभिरग्रमहिषीभिसपरिवाराभिरित्यादिकः सर्वोऽप्यालापको वाच्यः, दिव्यान् भोगार्हाये भोगाः-शब्दादयस्तान् भुआनोविहर्तुमिति, अत्रैव विशेषमाह-केवलं-नवरंपरिवारः परिकरस्तस्य ऋद्धिः-सम्पत्तत्तया, एते सर्वेऽपि मम परिचारकाः अहंचैषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेतिभावः, नैवच मैथुनप्रत्ययं-सुरतनिमित्तं यथा भव्यत्येवंभोगभोगान् भुनानो विहर्तुप्रभुरिति। __अथ प्रस्तुतोपाङ्गादर्शेष्वदृष्टमपि जीवाभिगमाधुपाङ्गादर्शदृष्टं सूर्याग्रमहिषीवक्तव्यमुपदय॑ते, सूरस्सजोइसरण्णो कइ अग्गमहिसीओपन्नत्ताओ?, गोअमा! चत्तारिअग्गमहिसीओ पं०, तंजहा-सूरप्पभाआयवाभाअच्चिमालिपभंकरा एवंअवसेसंजहाचन्दस्सणवरंसूरवडेंसए विमाणे सूरंसि सीहासणंसी'ति व्यक्तम् । अथ ग्रहादीनामग्रमहिषीवक्तव्यमाह
ग्रहादीना-मादिशब्दात्नक्षत्रतारकापरिग्रहः सर्वेषामपिविजया वैजयन्तीत्यादिचतुर्भिर्नामभिरेवाग्रमहिष्योज्ञेयाः, उक्तमेवविशिष्यआह-छाक्त्तर' इत्यादि, षटसप्तत्यधिकस्य ग्रहशतस्यापि जम्बूद्वीपवर्तिचन्द्रद्वयपरिवारभूतानांग्रहाणां द्विगुणितायाअष्टाशीतेरित्यर्थः, एता-अनन्तरोक्ता विजयाद्या अग्रमहिष्यो वक्तव्याः इमाभिर्वक्ष्यमाणाभिर्गाथाभिरुक्तनामभि इति गम्यं, इदं च ग्रहशतस्य विशेषणं बोध्यं, अत्र सूत्रादर्श प्रथमदृष्टमपि नक्षत्रदैवतसूत्रमुपेक्ष्य क्रमप्राधान्याद् व्याख्यानस्येति प्रथममष्टाशीतिग्रहनानामसूत्रं व्याख्यायते
मू. (३५२) इंगालए विआलए लोहिअंके सनिच्छरे चेव । - आहुणिए पाहुणिए कणगसणामा य पंचे व ॥
वृ. 'इंगालए' इत्यादि, अङ्गारकः १ विकालकः २ लोहिताङ्कः ३ शनैश्चरः ४ आधुनिकः ५प्राधुनिकः ६कनकेन सह एकदेशेन समानं नामयेषां ते कनकसमाननामानस्तेपञ्चैव प्रागुक्तसङ्ख्यापरिपाटया योजनीयाः, तद्यथा-कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानकः ११। मू. (३५३) सोमे १२ सहिए १३ आसणेय १४ कजोवए १५ अकबूरए १६ ।
अयकरए १७दुंदुभए संखसनामेवि तिन्नेव । मू. (३५४) एवं भाणियव्वं जाव भावकेउस्स अग्गमहिसीओत्ति॥
वृ. सोमे त्यादि सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्बुरकः १६ अजकरकः १७ दुन्दुभकः १८ शंख समान नामानो नाम्नि शंख शब्दाङ्किता इत्यर्थः ते त्रयः तद्यथा-शंखः १९शंखनामः २० शंखवर्णाभः २१ एवं उक्तेन प्रकारेण भणितव्यं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564