Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 531
________________ ५२८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३४४ अवचूलाश्च-प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषांसन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धि, परिमण्डिता कटिर्येषां तेतथा, तः पदद्वयकर्मधारयस्तेषां, तथा तपनीयखुराणांतथा तपनीयजिह्वानामित्यादि नव पदानिप्राग्वत्, तथा महता-बहुव्यापिना हयहेषितरूपोयः किलकिलायितरवः-सानन्दशब्दस्तेनेत्यादिप्राग्वत्, एषुचचतुर्वपि विमानबाहाबाहकसिंहादिवर्णकसूत्रेषुकियन्तिपदानिप्रस्तुतोपाङ्गसूत्रादर्शगतपाठनुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्यातानि, नचतत्रवाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं । __यतःश्रीमलयगिरिपादैर्जीवाभिगमभवृत्तावेव “क्वचिसिंहादीनां वर्णनंश्यत तद्वहुषु पस्तकेषुनदृष्टमित्युपेक्षितं, अवश्यं चेत्तदव्याख्यानेन प्रयोजनंतर्हिजम्बूद्वीपटीका परिभावनीया, तत्रसविस्तरंतदव्याख्यानस्यकृतत्वादि" त्यतिदेशविषयीकृत्वेन द्वयःसूत्रयोः सध्शपाठकत्वमेव सम्भाव्यत इति। __यत्तुजीवाभिगमपाठदृष्टान्यपि 'मिअमाइअपीणरइअपासाण मित्यादिपदानि नव्याख्यानि तत्प्रस्तुतसूत्रेसर्वथा अ६ष्टत्वात्, यानिचपदानि प्रस्तुतसूत्रादर्शपाठे दृष्टानितान्येवजीवाभिगमपाठानुसारेण सङ्गतपाठीकृत्य व्याख्यातानीत्यर्थः। अथ चन्द्रवक्तव्यस्य सूर्यादिवक्तव्यविषयेऽतिदेशं चन्द्रादीनां सिंहादिसङ्ख्यासंग्रहणिगाथे चाहगाहामू. (३४५) सोलसदेवसहस्सा हवंति वंदेसु चेव सूरेसु। ____ अद्वैव सहस्साईएक्के कमी गहविमाणे। मू. (३४६) चत्तारि सहस्साइं नक्खत्तंमि अहवंति इक्किक्के । दो चेव सहस्साइंताराख्वेक्कमेक्कमि॥ मू. (३४७) एवं सूरविमाणाणं जाव तारास्वविमाणाणं, नवरं एस देवसंघाएत्ति। वृ. “सोलस देवसहस्सा" इत्यादि, अत्र सङ्गतिप्राधान्या व्याख्यानस्य :श्यमानप्रस्तुतसूत्रादर्शेषु पुरः स्थितोऽपि प्रथम एवं सूरविमाणाणमित्याद्यालापको व्याख्येयो, यथा एवंचन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि वाहका वर्णनीयाः यावत्तारारूपाणामपि विमान वाहका वर्णनीयाः यावत्पदात् ग्रहविमानानां नक्षत्रविमानानांच विमानवाहका वर्णनीयाः, नवरं एषदेवसंघातः, अयमर्थः-सर्वेषांज्योतिष्काणांविमानवाहकवर्णनसूत्रंसममेवतेषां सङ्ख्याभेदस्तु व्याख्यास्यमानगाथाभ्यामवगन्तव्यः, ते चेमे वक्ष्यमाणे गाहात्यादि, षोडशदेवसहस्राणि भवन्ति चन्द्रविमानेचैवेति समुच्चयेतथा सूर्यविमानेऽपिषोडशदेवसहस्राणि, बहुवचनंचात्रप्राकृतत्वात, तथा अष्टौ देवसहस्राण्येकैकस्मिन् ग्रहविमाने तथा चत्वारिसहस्रणि नक्षत्रे चैकैकस्मिन् भवन्ति, तथा द्वे चैव सहने तारारूपविमाने एकैकस्मिन्निति । अथ दशमद्वारप्रश्नमाह मू. (३४८) एतेसिणंभंते! चंदिमसूरिअगहगणनखत्ततारारूवाणंकयरहे सव्वसिग्घगई कयरे सव्वसिग्घतराए चेव?, गो०! चंदेहितोसूरा सव्वसिग्घगई सूरेहिनोगहा सिग्धगईगहेहितो नक्खत्ता सिग्घ० नक्खत्तेहितो तारारूवा सिग्घ०, सव्वप्पगई चंदा सव्वसिग्घगई तारारुवा । वृ. 'एतेसि ण'मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगति' सर्वेभ्यश्चन्द्रादिभ्यश्चरज्योतिष्केभ्यः शीघ्रगति, इदंचसर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्वशीघ्रगतितरकः, अत्र द्वयोःप्रकृष्टेतरप, इदंचसर्वबाह्यमण्डलापेक्षयोक्तं, अभ्यन्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564