Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 530
________________ वक्षस्कारः-७ ५२७ तेषां, पदव्यत्ययः प्राकृतत्वात्, तथा तनुसूक्ष्माणि-अत्यन्तसूक्ष्माणि सुजातानि-सुनिष्पन्नानि स्निग्धानि लोमानि तेषां याछविस्तांधरन्तिते तथा, उपचितः-पुष्टोऽतएव मांसलो विशालोधूर्वहनसमर्थत्वात् परिर्पूव्यङ्गत्वात्यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडर्य्यमयानि 'भिसंतकडक्ख'त्तिभासमानकटाक्षाणिशोभमानार्द्धप्रेक्षितानि सुनिरीक्षणानि-सुलोचनानि येषां ते तथा तेषां, तथा युक्तप्रमाणोयथोचितमानोपेतःप्रधानलक्षणःप्रतीतःप्रशस्तरमणीयः-अतिरमणीयोगग्गरकः-परिधानविशेषो लोकप्रसिद्धस्तेन शोभितगलानांपदव्यत्ययःप्राग्वत्, तथा घरघरकाः-कण्ठाभरविशेषः सुशब्दा बद्धायत्रसचासौ कण्ठश्चतेन परिमण्डितानां, तथानानाप्रकारमणिकनकरत्नमय्योयाघण्टिकाःक्षुद्रघण्टा:-क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्थापितत्वेनसुकृताः-सुष्टु रचिता मालिकाः-श्रेणयो येषां ते तथा तेषां, तथा वरघण्टिकाः-उक्तघंटिकातो विशिष्टरत्वेन प्रधानघण्टा गलेयेषांतेवरघण्टागलकाः तथामालया उज्वलास्तेतथाततः पदद्वयकर्मधारयस्तेषां तथा पुष्पालङ्कारमेव विशेषेणाह-पद्मानि-सूर्यविकासीनि उत्पलानि-चन्द्रविकासीनि सकलानि-अखण्डितानि सुरभीणि तेषां मालास्ताभिर्विभूषितानां पदव्यत्ययः प्राग्वत्, तथा वज्ररत्नमयाः खुराः प्रतीता येषां ते तथा तेषां विविधाः मणिकनकादिमयत्वेन नानाप्रकारा विखुरा-उक्तखुरेभ्य ऊर्ध्ववर्तित्वेन विकृष्टाः खुरा येषां ते तथा तेषां, तथा स्फटिकमयदन्तानां तथा तपनीयमजिह्वानां तथा तपनीयमयतालुकानां तथा तपनीययोक्रके सुयोजितानां तथा 'कामगमाणं० षट्पदानि प्राग्वत्, महता-गम्भीरेण गर्जितरवेण-भाङ्कारशब्दरूपेणेत्यादि प्राग्वदिति। अथ चतुर्थबाहावाहकानाह-'चंदविमाणसस्स णं'मित्यादि, चन्द्रविमानस्योत्तरस्यां जिगमिषितदिशउत्तरपार्वेवामपार्वे इत्यर्थ, हयरूपधारिणांदेवानांचत्वारिदेवसहस्रणिउत्तरां बाहां परिवहन्तीति सम्बन्धः,श्वेतानामित्यादिप्राग्वत्, तथा तरो-वेगो बलं वा तथा मलि मल्लि धारणे'ततश्च तरोधारको वेगादिधारको हायनः-संवत्सरो येषां ते तरोमल्लिहायना यौवनवन्त इत्यर्थः अतस्तेषांवरतुङ्गमाणामित्यादियोगः,तथाहरिमेलको-वनस्पतिवइशेषस्तस्य मुकुलं-कुङ्गलं तथा मल्लिका-विचकिलस्तद्वदक्षिणी येषांते तथा तेषांशुक्लाक्षाणामित्यर्थः, तथा 'चंचुच्चिय'त्ति प्राकृतत्वेनचंचुरितं-कुटिलगमनंअथवाचंचुः-शुकचंचुस्तद्वद्वक्रतयेत्यर्थउचितं-उच्चताकरणं पादस्योच्चितं वा-उत्पाटनं पादस्यैव चंचूचितं च तत् ललितं च-विलासवद् गति पुलितं चगतिविशेषः प्रसिद्धः एवंरूपा तथा चलयतीति चलो-वायुः कम्पनत्वात् तद्वच्चपलचञ्चलाअतीवचपला गतिर्येषां ते तथा तेषां तथा लंघनं-गत्तदिरतिक्रमणं वल्गनं-उत्कूईनं धावनंशीघ्रमृजुगमनं धोरणं-गतिचातुर्यं त्रिपदी-भूमौ पदत्रयन्यासः जयिनीव-गमनान्तदरजयवती जविनीवा-वेगवतीशिक्षिता-अभ्यस्तागतियैस्तेतथातेषांतथा ललन्ति–दोलायमानानि "लोमत्ति प्राकृतत्वाद्रम्याणि गललातानि-कण्ठेन्यस्तानिवरभूषणानि येषांतेतथा तेषां, तथा सन्नतपावानामित्यादि पञ्च पदानि प्राग्वत्, नवरं वालप्रधानानि पुच्छानि वालपुच्छान्यर्थाच्चामराणीत्यर्थः। तथा 'तनुसुहुमे'त्ति पदं प्राग्वत् तथा मृद्वी विशदा-उज्ज्वला अथवा परस्परमसम्मिलिता प्रतिरोमकूपमेकैकसम्भवात् सूक्ष्मा-तन्वी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि-स्कन्धकेशश्रेणिस्तां धरंति येते तथा तेषां, तथा ललन्तः-सुबद्धत्वेन सुशोभाका ये स्थासका-दर्पणाकारा आभरणविशेषास्त एव ललाटवरभूषणानि येषां ते तथा तेषां, तथा मुखमण्डकं च-मुखाभरणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564