________________
वक्षस्कारः-७
५२७
तेषां, पदव्यत्ययः प्राकृतत्वात्,
तथा तनुसूक्ष्माणि-अत्यन्तसूक्ष्माणि सुजातानि-सुनिष्पन्नानि स्निग्धानि लोमानि तेषां याछविस्तांधरन्तिते तथा, उपचितः-पुष्टोऽतएव मांसलो विशालोधूर्वहनसमर्थत्वात् परिर्पूव्यङ्गत्वात्यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडर्य्यमयानि 'भिसंतकडक्ख'त्तिभासमानकटाक्षाणिशोभमानार्द्धप्रेक्षितानि सुनिरीक्षणानि-सुलोचनानि येषां ते तथा तेषां, तथा युक्तप्रमाणोयथोचितमानोपेतःप्रधानलक्षणःप्रतीतःप्रशस्तरमणीयः-अतिरमणीयोगग्गरकः-परिधानविशेषो लोकप्रसिद्धस्तेन शोभितगलानांपदव्यत्ययःप्राग्वत्, तथा घरघरकाः-कण्ठाभरविशेषः सुशब्दा बद्धायत्रसचासौ कण्ठश्चतेन परिमण्डितानां, तथानानाप्रकारमणिकनकरत्नमय्योयाघण्टिकाःक्षुद्रघण्टा:-क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्थापितत्वेनसुकृताः-सुष्टु रचिता मालिकाः-श्रेणयो येषां ते तथा तेषां, तथा वरघण्टिकाः-उक्तघंटिकातो विशिष्टरत्वेन प्रधानघण्टा गलेयेषांतेवरघण्टागलकाः तथामालया उज्वलास्तेतथाततः पदद्वयकर्मधारयस्तेषां
तथा पुष्पालङ्कारमेव विशेषेणाह-पद्मानि-सूर्यविकासीनि उत्पलानि-चन्द्रविकासीनि सकलानि-अखण्डितानि सुरभीणि तेषां मालास्ताभिर्विभूषितानां पदव्यत्ययः प्राग्वत्, तथा वज्ररत्नमयाः खुराः प्रतीता येषां ते तथा तेषां विविधाः मणिकनकादिमयत्वेन नानाप्रकारा विखुरा-उक्तखुरेभ्य ऊर्ध्ववर्तित्वेन विकृष्टाः खुरा येषां ते तथा तेषां, तथा स्फटिकमयदन्तानां तथा तपनीयमजिह्वानां तथा तपनीयमयतालुकानां तथा तपनीययोक्रके सुयोजितानां तथा 'कामगमाणं० षट्पदानि प्राग्वत्, महता-गम्भीरेण गर्जितरवेण-भाङ्कारशब्दरूपेणेत्यादि प्राग्वदिति।
अथ चतुर्थबाहावाहकानाह-'चंदविमाणसस्स णं'मित्यादि, चन्द्रविमानस्योत्तरस्यां जिगमिषितदिशउत्तरपार्वेवामपार्वे इत्यर्थ, हयरूपधारिणांदेवानांचत्वारिदेवसहस्रणिउत्तरां बाहां परिवहन्तीति सम्बन्धः,श्वेतानामित्यादिप्राग्वत्, तथा तरो-वेगो बलं वा तथा मलि मल्लि धारणे'ततश्च तरोधारको वेगादिधारको हायनः-संवत्सरो येषां ते तरोमल्लिहायना यौवनवन्त इत्यर्थः अतस्तेषांवरतुङ्गमाणामित्यादियोगः,तथाहरिमेलको-वनस्पतिवइशेषस्तस्य मुकुलं-कुङ्गलं तथा मल्लिका-विचकिलस्तद्वदक्षिणी येषांते तथा तेषांशुक्लाक्षाणामित्यर्थः, तथा 'चंचुच्चिय'त्ति प्राकृतत्वेनचंचुरितं-कुटिलगमनंअथवाचंचुः-शुकचंचुस्तद्वद्वक्रतयेत्यर्थउचितं-उच्चताकरणं पादस्योच्चितं वा-उत्पाटनं पादस्यैव चंचूचितं च तत् ललितं च-विलासवद् गति पुलितं चगतिविशेषः प्रसिद्धः एवंरूपा तथा चलयतीति चलो-वायुः कम्पनत्वात् तद्वच्चपलचञ्चलाअतीवचपला गतिर्येषां ते तथा तेषां तथा लंघनं-गत्तदिरतिक्रमणं वल्गनं-उत्कूईनं धावनंशीघ्रमृजुगमनं धोरणं-गतिचातुर्यं त्रिपदी-भूमौ पदत्रयन्यासः जयिनीव-गमनान्तदरजयवती जविनीवा-वेगवतीशिक्षिता-अभ्यस्तागतियैस्तेतथातेषांतथा ललन्ति–दोलायमानानि "लोमत्ति प्राकृतत्वाद्रम्याणि गललातानि-कण्ठेन्यस्तानिवरभूषणानि येषांतेतथा तेषां, तथा सन्नतपावानामित्यादि पञ्च पदानि प्राग्वत्, नवरं वालप्रधानानि पुच्छानि वालपुच्छान्यर्थाच्चामराणीत्यर्थः।
तथा 'तनुसुहुमे'त्ति पदं प्राग्वत् तथा मृद्वी विशदा-उज्ज्वला अथवा परस्परमसम्मिलिता प्रतिरोमकूपमेकैकसम्भवात् सूक्ष्मा-तन्वी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि-स्कन्धकेशश्रेणिस्तां धरंति येते तथा तेषां, तथा ललन्तः-सुबद्धत्वेन सुशोभाका ये स्थासका-दर्पणाकारा आभरणविशेषास्त एव ललाटवरभूषणानि येषां ते तथा तेषां, तथा मुखमण्डकं च-मुखाभरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org