Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 528
________________ ५२५ वक्षस्कारः-७ लष्टी-कान्तौ प्रकोष्ठको कलाचिके येषांतेतथा, तथा वृत्ताः-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाःअविवराः विशिष्टाः-तीक्ष्णा भेदिका यादंष्ट्रास्ताभिर्विडम्बितं-विवृतं मुखं येषां ते तथा, प्रायो हि सिंहजातीयादाढाभिव्यातिमुखाएव भवन्तीति, अथवा विडम्बितं-धातूनामनेकार्थत्वात् शोभितं मुखं येषां ते तथा, ततः कर्मधारयस्तेषां, तथा रक्तोत्पलपत्रवत् मूदुसुकुमाले-अतिकोमले तालुजिह्वे येषां ते तथा तेषां, तथा मधुगुटिका-घनीभूतक्षौद्रपिण्डस्तद्वत्पिङ्गले अक्षिणी येषां ते तथा तेषां, प्रायोहि हिंसजीवानांचशूषिपीतवर्णानीति, तथापीवरे-उपचितेवरे-प्रधानेऊरू-जंघे येषां ते तथा, परिपूर्ण अत एव विपुलो-विस्तीर्ण स्कन्धो येषां ते तथा। ततः पदद्वयकर्मधारयस्तेषां, तथा मृदवोविशदाः-स्पष्टाः सूक्ष्माः-प्रतलाः लक्षणैः प्रशस्ताः वरवर्णाः-प्रधानवर्णाः या केसरसटाः स्कन्धकेसरच्छटास्ताभिरुपशोभितानां तथा उच्छ्रितंऊर्वीकृतं सुनमितं-सुष्टुअधोमुखीकृतं सुजातं-शोभनतयाजातमास्फोटितंच-भूमावास्फालितं लाङ्कलं यैस्तथा तेषां तथा वज्रमयनखानां तैलादित्वाद् द्वित्वं वज्रमयदंष्ट्राणां वज्रमयदंतानां, त्रयाणामप्यवयवानामभङ्गुरत्वोपदर्शनार्थं वज्रोपमानं, तथा तपनीयमयजिह्वानां तथा तपनीयमयतालुकानांतथा तपनीयंयोक्रकंप्रतीतंसुयोजितंयेषुतेतथा तेषांकामेन-स्वेच्छया गमो-गमनं येषांतेतथा तेषां, यत्र जिगमिषन्ति तत्र गच्छन्तीत्यर्थ, अत्र 'युवर्णवृद्दवशरणगमृद्रह' इत्यनेनालप्रत्ययः, तथा प्रीति-चित्तोल्लासस्तेन गमो-गमनं येषां ते तथा तेषां, तथा मनोवद् गमो-गमनं वेगवत्वेनयेषांतेतथा तेषांतथा मनोरमाणांमनोहराणांतथाअमितगतीनां-बहुतरगतीनामित्यर्थः, तथाअमितबलेत्यादिपदानिप्राग्वत्, तथा महता आस्फोटितसिंहनादबोलकलकलरवेणमधुरेण पूरयन्ति-शब्दाद्वैतं विदधानानिअम्बरं-नभोमण्डलंदिशश्च-पूर्वाद्याः शोभयन्ति-शोभयमानानीति विशेषणद्वयं सहस्रणीति विशेष्येण सह योज्यं । अथ द्वितीयबाहावाहकानाह चन्द्रविमानस्य दक्षिणस्यां-जिगमि-षितदिशो दक्षिणे पार्वे गजरूपधारिणां देवानां चत्वारिदेवसहस्राणि दाक्षिणात्यांबाहां परिवहन्तीत्यन्वयः, एषां विशेषणायाह-'सेआणमित्यादि विशेषणचतुष्टयं प्राग्वत्, तथा वज्रमयंकुम्भयुगलं येषांते तथा सुस्थिता-सुसंस्थाना पीवरा-पुष्टा वरा वज्रमयी शुण्डा वर्तिता-वृत्ता पदव्यत्ययः प्राकृतत्वात् तस्यां दीप्तानि सुरकानि यानि पद्मानि-बिन्दुजालरूपाणि येषां प्रकाशो-व्यक्तभावो येषां ते तथा, पालकाप्यशास्त्र हि तारुण्ये हस्तिदेहे जायमाना रक्तबिन्दवः पद्मानीतिव्यवह्रियन्ते इति, ततः पदद्वयकर्मधारयस्तेषां, तथा अभ्युनतमुखानांपुरत उन्नतत्वात्तथा तपनीयमयावन्तर-रुणत्वेन विशालौ–इतरजीवकणपिक्षया विस्तीर्णौ चञ्चलौ--सहजचापल्ययुक्तौ अत एव चलन्तौ-- इतस्ततो दोलायमानौ विमलौआगन्तुकमलरहितौ उज्वलौ-भद्रजातीयहस्त्यवयवत्वेन बहिश्वेत-वर्णी कर्णी येषांते तथा तेषां, तत्र पदव्यत्ययःप्राग्वत्, तथा मधुवर्णे-क्षौद्रसशे भिसंति'त्तिभासमाने स्निग्धे पत्रले-पक्ष्मवती निर्मले छायादिदोषरहिते त्रिवर्णे-रक्तपीतश्वेतवर्णाश्रये मणिरत्नमये लोचने येषां ते तथा तेषां, तथाअभ्युद्गतानि-अत्युन्नतानि मुकुलमल्लिकेव-कोरकाव-स्थविचकिलकुसुमवद्धवलानि तथा सशं-समं संस्थानं येषां तानि तथा, निव्रणानि-व्रणवर्जितानि हेढानि कृत्स्नस्फटिकमयानि-सर्वात्मना स्फटिकमयानीत्यर्थः सुजातानि-जन्मदोषरहितानि दन्तमुसलानि तैरुपशोभितानां, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564