________________
५२५
वक्षस्कारः-७ लष्टी-कान्तौ प्रकोष्ठको कलाचिके येषांतेतथा, तथा वृत्ताः-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाःअविवराः विशिष्टाः-तीक्ष्णा भेदिका यादंष्ट्रास्ताभिर्विडम्बितं-विवृतं मुखं येषां ते तथा, प्रायो हि सिंहजातीयादाढाभिव्यातिमुखाएव भवन्तीति, अथवा विडम्बितं-धातूनामनेकार्थत्वात् शोभितं मुखं येषां ते तथा, ततः कर्मधारयस्तेषां, तथा रक्तोत्पलपत्रवत् मूदुसुकुमाले-अतिकोमले तालुजिह्वे येषां ते तथा तेषां, तथा मधुगुटिका-घनीभूतक्षौद्रपिण्डस्तद्वत्पिङ्गले अक्षिणी येषां ते तथा तेषां, प्रायोहि हिंसजीवानांचशूषिपीतवर्णानीति, तथापीवरे-उपचितेवरे-प्रधानेऊरू-जंघे येषां ते तथा, परिपूर्ण अत एव विपुलो-विस्तीर्ण स्कन्धो येषां ते तथा।
ततः पदद्वयकर्मधारयस्तेषां, तथा मृदवोविशदाः-स्पष्टाः सूक्ष्माः-प्रतलाः लक्षणैः प्रशस्ताः वरवर्णाः-प्रधानवर्णाः या केसरसटाः स्कन्धकेसरच्छटास्ताभिरुपशोभितानां तथा उच्छ्रितंऊर्वीकृतं सुनमितं-सुष्टुअधोमुखीकृतं सुजातं-शोभनतयाजातमास्फोटितंच-भूमावास्फालितं लाङ्कलं यैस्तथा तेषां तथा वज्रमयनखानां तैलादित्वाद् द्वित्वं वज्रमयदंष्ट्राणां वज्रमयदंतानां, त्रयाणामप्यवयवानामभङ्गुरत्वोपदर्शनार्थं वज्रोपमानं, तथा तपनीयमयजिह्वानां तथा तपनीयमयतालुकानांतथा तपनीयंयोक्रकंप्रतीतंसुयोजितंयेषुतेतथा तेषांकामेन-स्वेच्छया गमो-गमनं येषांतेतथा तेषां, यत्र जिगमिषन्ति तत्र गच्छन्तीत्यर्थ, अत्र 'युवर्णवृद्दवशरणगमृद्रह' इत्यनेनालप्रत्ययः, तथा प्रीति-चित्तोल्लासस्तेन गमो-गमनं येषां ते तथा तेषां, तथा मनोवद् गमो-गमनं वेगवत्वेनयेषांतेतथा तेषांतथा मनोरमाणांमनोहराणांतथाअमितगतीनां-बहुतरगतीनामित्यर्थः, तथाअमितबलेत्यादिपदानिप्राग्वत्, तथा महता आस्फोटितसिंहनादबोलकलकलरवेणमधुरेण पूरयन्ति-शब्दाद्वैतं विदधानानिअम्बरं-नभोमण्डलंदिशश्च-पूर्वाद्याः शोभयन्ति-शोभयमानानीति विशेषणद्वयं सहस्रणीति विशेष्येण सह योज्यं । अथ द्वितीयबाहावाहकानाह
चन्द्रविमानस्य दक्षिणस्यां-जिगमि-षितदिशो दक्षिणे पार्वे गजरूपधारिणां देवानां चत्वारिदेवसहस्राणि दाक्षिणात्यांबाहां परिवहन्तीत्यन्वयः, एषां विशेषणायाह-'सेआणमित्यादि विशेषणचतुष्टयं प्राग्वत्, तथा वज्रमयंकुम्भयुगलं येषांते तथा सुस्थिता-सुसंस्थाना पीवरा-पुष्टा वरा वज्रमयी शुण्डा वर्तिता-वृत्ता पदव्यत्ययः प्राकृतत्वात् तस्यां दीप्तानि सुरकानि यानि पद्मानि-बिन्दुजालरूपाणि येषां प्रकाशो-व्यक्तभावो येषां ते तथा, पालकाप्यशास्त्र हि तारुण्ये हस्तिदेहे जायमाना रक्तबिन्दवः पद्मानीतिव्यवह्रियन्ते इति, ततः पदद्वयकर्मधारयस्तेषां, तथा अभ्युनतमुखानांपुरत उन्नतत्वात्तथा तपनीयमयावन्तर-रुणत्वेन विशालौ–इतरजीवकणपिक्षया विस्तीर्णौ चञ्चलौ--सहजचापल्ययुक्तौ अत एव चलन्तौ-- इतस्ततो दोलायमानौ विमलौआगन्तुकमलरहितौ उज्वलौ-भद्रजातीयहस्त्यवयवत्वेन बहिश्वेत-वर्णी कर्णी येषांते तथा तेषां, तत्र पदव्यत्ययःप्राग्वत्, तथा मधुवर्णे-क्षौद्रसशे भिसंति'त्तिभासमाने स्निग्धे पत्रले-पक्ष्मवती निर्मले छायादिदोषरहिते त्रिवर्णे-रक्तपीतश्वेतवर्णाश्रये मणिरत्नमये लोचने येषां ते तथा तेषां, तथाअभ्युद्गतानि-अत्युन्नतानि मुकुलमल्लिकेव-कोरकाव-स्थविचकिलकुसुमवद्धवलानि तथा सशं-समं संस्थानं येषां तानि तथा, निव्रणानि-व्रणवर्जितानि हेढानि कृत्स्नस्फटिकमयानि-सर्वात्मना स्फटिकमयानीत्यर्थः सुजातानि-जन्मदोषरहितानि दन्तमुसलानि तैरुपशोभितानां,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org