Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 525
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/३४० ५२२ मेरुदिशि स्थितं सत् चारं चरतीति सर्वाभ्यन्तरचारीत्युक्तं । तथा मूलो-मूलनक्षत्रं सर्वबाह्यं चारं चरति, यद्यपि पञ्चदशमण्डलाद्बहिश्चाणि मृगशिरःप्रभृतीनि षड् नक्षत्राणि पूर्वाषाढयोश्चतुर्णा तारकाणां मध्ये द्वे द्वे च तारे उक्तानि तथाप्येतदपरबहिश्चारिनक्षत्रापेक्षया लवणदिशि स्थितं सच्चारं चरतीति सर्वबहिश्चारीत्युक्तं, तथा भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, तथा स्वातिनक्षत्रं सर्वोपरितनं चारं चरति, अयं भावः - दशोत्तरशतयोजनरूपे ज्योतिश्चक्रबाहल्ये यो नक्षत्राणा क्षेत्रविभागश्चतुर्योजनप्रमाणस्तदपेक्षयोक्तनक्षत्रयोः क्रमेणात्यादिकमस्तीत्याहु " रिति । अथ सप्तमं द्वारं पृच्छति - 'चन्दविमाणे ण' मित्यादि, चन्द्रविमानं भदन्त ! किं संस्थितंकिंसंस्थानं प्रज्ञप्तम् ?, गौतम! उत्तानीकृतार्द्धकपित्थफलसंस्थानसंस्थितं सर्वस्फटिकमयं 'अभ्युद्गतोत्सृत' मित्यनेन विजयद्वारपुरस्थप्रकण्ठकगतप्रासादवर्णकः नेतव्यानि संस्थाननैयत्यबुद्धिं प्रापणीयानि, ननु यदि सर्वाण्यपि ज्योतिष्कविमानान्यर्द्धकृतकपित्थाकाराणि ततश्चन्द्रसूर्यविमानानान्यतिस्थूलत्वादुदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमन्ति कस्मात्तथाविधानानि नोपलभ्यन्ते ?, यस्तु शिरस उपरि वर्त्तमानानां तेषामधस्थायिजनेषु वर्त्तुलतया प्रतिमासः अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्त्तुलतया दृश्यमानत्वात् सोऽपि न सम्यगभावमञ्चति पूर्णवृत्तस्यापि तथा दर्शनात् । मू. (३४१) मू. (३४२) मू. (३४३) वृ. अत्र पद्येनोत्तरसूत्रमाह - गौतम ! खल्वितिपदं निश्चयेऽलङ्कारे वा षट्पञ्चाशदेकषष्टिभागान् योजनस्य विस्तीर्णं चन्दमण्डलं भवति, अयमर्थः:- एकस्य प्रमाणांगुलयोजनस्यैकषष्टिभागीकृतस्य षट्पञ्चाशता भागैः समुदितैर्यावव्ठयमाणं भवति तावत्प्रमाणोऽस्य विस्तार इत्यर्थः, वृत्तवस्तुनः सद्दशायामविष्कम्भत्वात्, एवमेवोत्तरसूत्रं, तेनायामोऽपि तावानेव, परिक्षेपस्तु स्वयमभ्युह्यः, वृत्तस्य सविशेषस्त्रगुणः परिधिरिति प्रसिद्धेः, बाहल्यं चाष्टाविंशतिभागान् यावत्तस्य बोद्धव्यं, षट्पञ्चाशद्भागानामर्द्धे एतावत एव लाभात्, सर्वेषामपि ज्योतिष्क विमानानां स्वस्वव्यासप्रमाणात् अर्द्धप्रमाणबाहल्यानीति वचनात्, तथा अष्टचत्वारिंशतं भागान् विस्तीर्णं सूर्यमण्डलं भवति, चत्वारिंशद् भागान् यावद् बाहल्यं तस्य बोद्धव्यं, तथा द्वौ क्रोशौ च ग्रहाणां तदेवार्द्ध योजनमित्यर्थ, तथा नक्षत्राणां तु भवति तस्यार्द्ध- एकं क्रोशमित्यर्थः । छप्पन्नं खलु भाए विच्छिन्नं चंदमंडलं होइ । अट्ठावीसं भाए बाहल्लं तस्स बोद्धव्वं । अडयालीसं भाए विच्छिन्नं सूरमंडलं होइ । चवीसं खलु भाए बाहल्लं तस्स बोद्धव्वं ॥ दो कोसे अ गहाणं नक्खत्ताणं तु हवइ तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाहल्लं ॥ तस्यार्द्ध क्रोशार्द्धमित्यर्थः ताराणां विमानानि विस्तीर्णानि, ग्रहदिविमानाना मध्ये यस्य यो व्यासस्तस्य तदर्द्ध बाहल्यं भवति, यथा क्रोशद्वयस्याद्धः क्रोशो ग्रहविमानबाहल्यं, क्रोशार्द्धं नक्षत्रविमानबाहल्यं, क्रोशतुर्यांशस्ताराविमानबाहल्यमिति, एतच्चोत्कृष्टस्थितिकतारादेव विमानमाश्रित्योक्तं, यत्पुनर्जघन्यस्थितिकतारादेवविमानं तस्यायामविष्कम्भपरिमाणं पञ्चधनुः शतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564