________________
-
५०८
जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् ७/३३१ द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात् त्रिचत्वारिंशत्तेभ्यः एकं रूपमादाय सप्तषष्टिभागीक्रियते ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिभागास्तेभ्यः षट्षष्टि शुद्धाः स्थितौ पश्चाद् द्वौ सप्तषष्टिभागौ, ततस्त्रिंशता मुहूर्तः श्रवणः शुद्धः स्थिताः पश्चान्महूर्ताः षड्विंशति,ततइदमागतंधनिष्ठानक्षत्रस्य त्रिषुमुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसंख्येषु द्वाषष्टिभागेषु एकस्यच द्वाषष्टिभागस्य पञ्चषष्टिसंख्येषु सप्तषष्टिभागेषु शेषेषुप्रथमापौर्णमासीसमाप्तिमियर्ति,एवं पञ्चानां युगभाविनीनां श्राविष्ठीनां पूर्णिमानां कचित् श्रवणेन कचिद् धनिष्ठय च परिसमाप्तिावनीया ।
तथा प्रौष्ठपदीमिति-भाद्रपदी भदन्त ! पौर्णमासी कति नक्षत्राणि योगं योजयन्ति ?, भगवानाह-गौतम! त्रीणि नक्षत्राणियोजयन्ति, तद्यथा-शतभिषक् पूर्वभद्रपदाउत्तरभद्रपदा, आसां पञ्चानामपि युगभाविनीनामुक्तनक्षत्राणां मध्ये अन्यतरेण परिसमापनात्।
आश्वयुर्जी भदन्त! पौर्णमासींकति नक्षत्राणियोजयन्ति?,गौतम! द्वेयोजयतः-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुर्जी पौर्णमासी परिसमापयति परं तौष्ठपदीमपि, लोके च प्रौष्ठपद्यामेव तस्य प्राधान्य तन्नाम्ना तस्याः अभिधानाद् अतस्तदिह न विवक्षितमित्यदोषः, अतो वे समापयत इत्युक्त, आसां बहीनां युगभाविनीनामुक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात्, तथा कार्तिकी पौर्णमासी द्वे नक्षत्रे, तद्यथा-भरणी कृत्तिका च, इहीप्यश्विनीनक्षत्रं कांचित्कार्तिकी पौर्णमासी परिसमापयति परंतदाश्वयुज्यांपौर्णमास्यां प्रधानमितीह न विवक्षितमित्यदोषः।
अतोऽत्रापि द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यत्रेण परिसमापनात, तथा मार्गशीर्षी, पौर्णमासी द्वेनक्षत्रे, तद्यथा-रोहीणी मृगशिरश्च, आसांपंचानामपि युगभाविनीनांउक्तनक्षत्रयोर्मध्येऽन्यतरेणपरिसमापनात्, तथा पौषींपौर्णमासींत्रीणिनक्षत्राणि, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, आसां युगमध्येऽधिकमाससम्भवेन षण्मामपि युगभाविनीनां उक्तनक्षत्राणां मध्येोन्यतरेण परिसमापनात्, तथा माघी पौर्णमासी । नक्षत्रे, तद्यथा-अश्लेषा मघा चशब्दात् पूर्वफल्गुनीपुष्यौ ग्राह्यौ, तेनासां युगभाविनीनां पञ्चानामपि मध्ये काञ्चिदश्लेषा काञ्चिन्मघा काञ्चित् पूर्वफल्गुनी कांचित्पुष्यश्च परिसमापयति, तथा फाल्गुनी पौर्णमासी द्वे नक्षत्रे, तद्यथा-पूर्वफल्गुनी उत्तरफल्गुनी च, आसां पंचानामपि युगमाविनीनां उक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्।
तथा चैत्री पौर्णमासी द्वे नक्षत्रे, तद्यथा-हस्तः चित्रा च, आसां पंचानामपियुगभाविनीनामुक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा वैशाखी द्वे, तद्यथा-स्वातिविशाखा चशब्दादनुराधा, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पूर्णिमास्यां प्रधाना ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेतिअतो द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तमक्षत्रयोर्मध्येऽन्यतरेण समापनात् । तथा ज्येष्ठामूलीं पौर्णमासीं त्रीणि, तद्यथा-अनुराधा ज्येष्ठा मूलं च, आसां पंचानामपि युगभाविनीनां उक्तनक्षत्राणां मध्येऽन्यतरेण समापनात्, तथा आषाढी पौर्णमासी द्वे, तद्यथा-पूर्वाषाढा उत्तराषाढाच, आसांयुगान्ते अधिकमाससम्भवेन षण्णामपि युगभाविनीनां उक्तन-क्षयोर्मध्येऽन्यतरेण समापनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org