________________
वक्षस्कारः-७
५०७
सर्वष्वपिच शोधनकेषु उपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य द्वाषष्टिभागाश्तुर्विंशति षटषष्टिश्च चूर्णिकाभागा एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधीयाः । ॥११॥ “एआई सोहइत्ताजं सेसंतं हवइ नखत्तं ।
इत्थं करेइ उडुवइ सूरेण समं अमावासं॥' एतानि-अनन्तरोदितानिशोधनकानि यथायोगंशोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण समं उडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावनात्वियं-केनापिपृच्छयते-यगस्यादौ प्रथमाअमावास्या केन नक्षत्रेणोपेतासमाप्तिमुपैतीति तत्र पूर्वोदितस्वरूपोऽवधार्यराशि षट्षष्टिर्मुहूर्ताः पञ्च द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमायाः अमावास्यायाः पृष्ठत्वात्, 'एकेन गुणितं तदेव भवतीति जातस्तावानेव राशि, ततस्तस्माद् द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद्वाषष्टिभागा इत्येवंरूपंपुनर्वसुशोध्यते, तत्रषट्षष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहूर्ताः शुद्धाः स्थिताः पश्चात् चतुश्चत्वारिंशत् ४४, तेभ्य एकंमुहूर्तमपकृष्यस्य द्वाषष्टिभागाः क्रियन्ते कृत्वा च ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्तेजाताः सप्तषष्टितेभ्यः षट्चत्वारिंशच्छुद्धाः शेषास्तिष्ठन्त्येकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रशता मुहूर्तः पुष्यः शुद्धः, पश्चात् त्रयोदश मुहूर्ताः,अश्लेषानक्षत्रंचार्द्धक्षेत्रमितिपञ्चदशमुहूर्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्यैकस्मिन् मुहूर्ते एकस्यच मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषुएकस्यच द्वाषष्टिभागस्य सप्तषष्टिधाच्छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्यासमाप्तिमुपगच्छतीति, एवं सर्वास्वप्यमावास्यासु करणं भावनीयम्।अत्रपूर्णिमाप्रक्रमे यदमावास्याकरणमुक्तंतत्करणगाथानुरोधेनयुगादावमावस्यायाः प्राथम्येन क्रमप्राप्तत्वेन च । अथ प्रस्तुतं पूर्णिमाकरणं । ॥१॥ 'इच्छापुण्णिमगुणिओ अवहारो सोऽत्थ होइ कायव्यो।
तंचेवय सोहणगं अभिईआइंतु कायव्वं ॥" ॥२॥ सुद्धमि अ सोहणगेजं सेसंतं हवेज नक्खत्तं ।
तत्थ य करेइ उडुवइ पडिपुण्णं पुण्णिमं विमलं । यथा पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि-पौर्णमासीचन्द्रानक्षत्रपरिज्ञानविधौ ईप्सितपूर्णिमासीगुणितः-यांपूर्णमासीं ज्ञातुमिच्छसितत्सङ्ख्ययागुणितः कर्तव्यः, गुणितेचसतितदेव-पूर्वोक्तं शोधनकंकर्तव्यं, केवलमभिजिदादिकंनतुपुनर्वसुप्रभृतिकं, शुद्धे च शोधनके यच्छेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति उडुपति-चन्द्रमाः परिपूर्णा पूर्णमासी विमलामितिकरणगाथाद्वयाक्षरार्थः, भावना त्वियं-कोऽपि पृच्छति-युगस्यादौ प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपगच्छतीति, तत्र षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिधयते, सप्रथमायां पौर्णमास्यां किल पृष्टमित्येकेन गुण्यते,
ततस्तस्माद-भिजितो नव मुहूर्ता एकस्य चमुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटषष्टि सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयम्, तत्र च षटषष्टेर्नव मुहूर्ताः शुधाः स्थिताः पश्चात् सप्तपञ्चाशत् तेभ्यः एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः तेच
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org