________________
वक्षस्कारः -७
सम्प्रति कुलद्वारप्रतिपादनेन स्वतः सिद्धामपि कुलादियोजनां मन्दमतिशिष्यबोधनाय प्रश्नयन्नाह – 'साविट्ठिण्ण’मित्यादि, श्राविष्ठीं भदन्त ! किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं युनक्ति ?, भगवानाह - गौतम! कुलं वा युनक्ति वाशब्दः समुच्चये ततः कुलमपि युनक्तीत्यर्थः, एवमुपकुलमपि कुलोपकुलमपि तत्र कुलं युञ्जत् दनिष्ठानक्षत्रं युनक्ति, तस्यैव कुल (तया) प्रसिद्धस्य सतः श्राविष्ठयां पौर्णमास्यां भावात्, उपकुलं युञ्जत् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां श्राविष्ठयां पूर्णिमास्यांद्वादशमुहूर्त्तेषु किञ्चितसमधिकेषु शेषेषु सह योगमुपैति, ततः श्रवणसहचरत्वात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयति इति विवक्षितत्वाद्युनक्तीत्युक्तं ।
५०९
सम्प्रत्युपसंहारमाह-यत एवं त्रिभिरपि कुलादिभि श्राविष्ठयाः पौर्णमास्यां योजनाऽस्ति ततः श्राविष्ठीं पौर्णमासीं कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् । तथा 'पोट्ठवदिण्णं भंते ! इत्यादि, प्रीष्ठपदीं पौर्णमासीं भदन्त ! किं कुलं वा युनक्तीत्यादि पृच्छा, गौतम ! कुलं वा उपकुलं वाकुलोपकुलं वायुनक्ति तत्र कुलं युञ्जत् उत्तरभद्रपदानक्षत्रं युनक्ति, उपकुलं युञ्जत् पूर्वभद्रपदानक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् शतभिषक् नक्षत्रं युनक्ति, उपसंहारमाह
"
यत एवं त्रिभिरपि कुलादिभिः प्रौष्ठपद्याः पौर्णमास्याः योजनाऽस्ति ततः प्रौष्ठपदीं पौर्णमासीं कुलं वायुनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात् इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती प्रौष्ठपदी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् इति । तथा 'अस्सोइण्ण' मिति आश्वयुओं भदन्तेति पृच्छा, गौतम! कुलं वा युनक्ति उपकुलं वा युनक्ति नो लभते कुलोपकुलं, तत्र कुलं युञ्जत् अश्विनीनक्षत्रं युनक्ति, उपकुलं युञ्जत् रेवतीनक्षत्रं युनक्ति, उपसंहारमाह-यत एवं द्वाभ्यां कुलादिभ्या आश्वयुज्याः पौर्णमास्या योजनास्ति तत आश्वयुजीं पौर्णमासीं कुलं वा युनक्ति उपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा उपकुलेन वा युक्ता सती आश्वयुजी पौर्णमासी युक्तेति वक्तव्यं स्यात् इति ।
तथा कार्त्तिकीं भदन्त ! पौर्णमासीं किं कुलमित्यादि पृच्छा, गौतम! कुलं वा युनक्ति न कुलोपकुलं युनक्ति न कुलोपकुलं युनक्ति, तत्र कुलं युञ्जत् कृत्तिकानक्षत्रं युनक्ति उपकुलं युञ्जत् भरणीनक्षत्रं युनक्ति कार्त्तिकीमित्याद्युपसंहारवाक्यं प्राग्वत् इति, मार्गशीर्षी भदन्त ! पौर्णमासीं किं कुलं तदेवेति द्वे युक्तः, कोऽर्थः ? - कुलमुपकुलं वा युनक्ति न भवति कुलोपकुलं, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी, मार्गशीर्षी पौर्णमासीमित्याद्युपसंहारवाक्यं प्राग्वत्, अथ लाघवार्थमतिदेशमाह - ' एवं सेसि आओ' इत्यादि, एवं शेषिका अपि - पौष्याद्यास्तावद्वक्तव्याः यावदाषाढीपूर्णिमा इत्यर्थः, पौषीं ज्येष्ठामूलीं च पूरणिमं कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, शेषिकायां-माध्यादीनां कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलोपकुलं न भण्यते, तदभावादिति ।
अथामावास्याः - 'साविट्ठिण्णं' इत्यादि, श्राविष्ठीं- श्रावणमासभावीनीं अमावास्यां कति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
1