SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ५१० जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/३३१ नक्षत्राणि युञ्जन्ति ? - यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्ति ? -, भगवानाह - गौतम ! द्वे नक्षत्रे युक्तः, तद्यथा - अश्लेषा मघा, इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे चतुर्दशे वा नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां चोक्ता ततोऽमावास्यायामप्यस्यां अश्लेषा मघा चोक्ता, लोके च तिथिगणितानुसारतोगतायामप्यमावास्यायां वर्त्तमानायामपि प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमावास्याऽभूत् ततः सकलोऽन्यहोरात्रोऽमावास्येति व्यवह्रियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यते इति न कश्चिद्विरोध, परमार्थतः पुनरिमाममावास्यां इमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वसूपुष्योऽश्लेषाच, अस्यां पञ्चानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, करणं चात्र प्रागुक्तं । तथा प्रौष्ठपदीं भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम ! द्वे नक्षत्रे युक्तः, तद्यथा- पूर्वफल्गुनी उत्तरफल्गुनी चशब्दान्मघा ग्राह्या, अस्यास्तु भाद्रपदपूर्णिमावर्त्तिशतभिषक्तो व्यवहारतोऽपि करणरीत्या निश्चयतश्चार्वाग्गणने पंचदशत्वात्, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनाच्च, करणं च पूर्ववत् । तथा आश्वयुजीममावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम ! द्वेनक्षत्रे युक्तः, तद्यथा-ह स्तश्चित्राच, इदमपि व्यवहारतः निश्चयतस्तु आश्वयुजीममावास्यां त्रीणि नक्षत्राणि समापयन्ति, तद्यथा - उत्तरफल्गुनी हस्तश्चित्रा च यच पूर्वमाश्वयुज्यां पूर्णिमायामुत्तरभद्रपदा प्रागुक्तहेतोर्न विवक्षिता परं निश्चयतः सा आयातीति तस्याः पंचदशत्वादुत्तरफल्गुन्यत्र गृहीता, आसां च पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात् भावना प्राग्वत्, तथा कार्त्तिकीं अमावास्यां द्वे नक्षत्रे युक्तः, तद्यथा - स्वातिर्विशाखा च एतदपि व्यवहारतः निश्चयतस्तु त्रीणि स्वातिर्विशाखा चित्रा च, अस्यामपि पूर्णिमायां अश्विन्यनुरोधेन चित्रोक्ता, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनादिति । तथा मार्गशीर्षी त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा - अनुराधा ज्येष्ठा मूलश्च, एदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि अमावास्या परिसमापयन्ति, तद्यथा - विशाखा अनुराधा ज्येष्ठा च आसां पंचानां युगभाविनीनांनक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, तथा पौषीममावास्यां द्वे नक्षत्रे युक्तः - पूर्वाषाढा उत्तराषाढाच, एतदपि व्यवहारत उक्तं निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा - मूलं पूर्वाषाढा उत्तराषाढाच, आसां युगमध्येऽधिकमासम्भवेन षण्णामपीत्यादि पूर्ववत्, तथा माघीममावास्यां त्रीणि-अभिजित् श्रवणो धनिष्ठा, एतत्पूर्णिमावर्त्तिभ्यामश्लेषामधाभ्यामभिजितः षोडशत्वेन व्यवहारातीतत्वेऽपि श्रवणसम्बद्धत्वात् पंचदशत्वं समाधेयम्, एतदपि व्यवहारतः निश्चयतः पुनस्त्रणि उत्तराषाढा अभिजित् श्रवणश्च, आसांपंचानामपीत्यादि पूर्ववत् । तथा फल्गुनीं त्रीणि तद्यथा - शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा, एतदपि व्यवहारतः निश्चयतस्त्रीणि तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा च, आसां पंचानामपीत्यादि तथैव, तथा चैत्रीं द्वे नक्षत्रे - रेवती आश्विनी च, एतदपि व्यवहातः निश्चयतस्तु त्रीणि तद्यथा - पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, आसामपीत्यादि तथैव, तथा (वैशाखी द्वे नक्षत्रे - भरणी कृत्तिका च, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy