________________
वक्षस्कारः-७
५११
एतदपि व्यवहारतः निश्चयतस्तुत्रीणितद्यथा-रेवती अश्विनी भरणीच, आसामपीत्यादितथैव) ज्येष्ठामूली द्वे-रोहिणीमृगशिरश्च, एतदपि व्यवहारतः निश्चयतस्तुइमेद्वेनक्षत्रे-रोहिणी कृत्तिका च, आसामपीत्यादि पूर्ववत्, तथा आषाढी त्रीणि नक्षत्राणि-आर्द्रा पुनर्वसू पुष्यः, एतदपि व्यवहारतः परमार्थतस्तु इमानि त्रीणि नक्षत्राणि-मृगशिरः आर्द्रा पुनर्वसूच, आसां युगान्तेऽधिकमाससम्भवेन षण्णामपि [पञ्चानां] तथैवेति, अत्र सर्वत्र नक्षत्रगणनामध्ये तत्राभिजिदन्तर्भवति तत्र न गण्यं, स्तोककालत्वात्, यत उक्तं समवायाङ्गे-"जंबुद्दीवे २ अभिईवज्जेहिं सत्तावीसाए नक्खत्तेहिं संववहारो वट्टइत्ति।
अथामावास्यासु कुलादियोजनाप्रश्नमाह-'साविट्टिण्ण मित्यादि, श्राविष्ठी भदन्त ! अमावास्यां किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलंयुनक्ति?,भगवानाह-गौतम! कुलं वा युनक्ति उपकुलं वा युनक्ति वाशब्दः समुच्चये, नो लभते कुलोपकुलं, तत्र कुलं युअत् श्राविष्ठीममावास्यां मघानक्षत्रं युनक्ति, एतच्च प्रागुक्तयुक्त्या व्यवहारत उक्तं परमार्थतः पुनः कुलंयुअत् पुष्यन्क्षत्रंयुनक्तीति, एतच्च प्रागेवोक्तम्, एवमुत्तरसूत्रमपिव्यवहारमधिकृत्य यथायोगं परिभावनीयमति, उपकुलं युअत् अश्लेषानक्षत्रंयुनक्ति, अथोपसंहारमाह-यत उक्तप्रकारेण द्वाभ्यां कुलाभ्यां श्राविष्ठया अमावास्यायाश्चन्द्रयोगः समस्ति, न तु कुलोपकुलेन, ततः श्राविष्ठीममावास्यां कुलमपि युनक्ति उपकुलमपि युनक्ति इति वक्तव्यं स्यात्, यदिवा कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविष्ठी अमावास्या युक्तेति वक्तव्यं स्यात् ।।
तथा प्रौष्ठपदी भदन्त ! अमावास्यामित्यादि तदेव प्रश्नसूत्रं, उत्तरसूत्रे द्वे कुलोपकुले युक्तः नो युनक्ति कुलोपकुलं, तत्र कुलं युअत् उत्तरफल्गुनीनक्षत्रं युनक्ति उपकुलं युञ्जत् पूर्वफल्गुनीनक्षत्रंयुनक्ति, उपसंहारसूत्रंतथैव, मार्गशीर्षी तदेवप्रश्नसूत्रं किं कुलंजोएईत्यादि, तत्र कुलं युंजत्मूलनक्षत्रंयुनक्ति उपकुलं युंजत् ज्येष्ठानक्षत्रं कुलोपकुलं युंजत् अनुराधानक्षत्रं युनक्ति, यावत्करणादुपसंहारसूत्रंयुक्तेति वक्तव्यं स्यात्, एवं माध्याः फाल्गुन्याः आषाढयाश्च कुलं वा उपकुलं वा कुलोपकुलं वा, अवशेषिकाणां कुलं वा उपकुलं वायुनक्तीति वाच्यम्।
अथसन्निपातद्वारम्-तत्रसन्निपातोनामपूर्णिमानक्षत्रात्अमावास्यायाममावास्यानक्षत्राच्च पूर्णिमायां नक्षत्रस्य नियमेन सम्बन्धस्तस्य सूत्रम्-'जया णं भंते'इत्यादि, यदा भदन्त ! श्राविष्ठी श्रविष्ठानक्षत्रयुक्ता पूर्णिमा भवति तदा तस्या अक्तिनी अमावास्या माघी-मघानक्षत्रयुक्ताभवतियदातुमाधी-मधानक्षत्रयुक्तापूर्णिमाभवतितदापाश्चात्याअमावास्या श्राविष्ठीश्रविष्ठायुक्ता भवतीति, काक्वाप्रश्नः, भगवानाह-हन्तेति भवति, तत्र गौतम! यदा श्राविष्ठीत्यादि तदेव वक्तव्यं, प्रश्नेन समानोत्तरत्वात्, अयमर्थः-इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासीभवतितआरभ्यअक्तिने पंचदशेचतुर्दशेवानक्षत्रेनियमतोऽमावास्या, ततोयदा श्राविष्ठीश्रविष्ठानक्षत्रयुक्ता पौर्णमासी भवति तदा अक्तिनी अमावास्यामाधी-मघानक्षत्रयुक्ताभवति, श्रविष्ठानक्षत्रादारभ्य मघानक्षत्रस्य पूर्वं चतुर्दशत्वात्।
अत्र सूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिवृत्योस्तुमघा-नक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पञ्चदशत्वादिति पाठस्तेनात्र विचार्य, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदाभदन्त! माघी-मघानक्षत्रयुक्ता पूर्णमा भवति तदा श्राविष्ठी-श्रविष्ठानक्षत्रयुक्ता पाश्चात्या अमावास्या भवति, मघानक्षत्रादारभ्य पूर्वं श्रविष्ठानक्षत्रस्य पंचदशत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org