Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 517
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/३३२ सकायमणुरंगिआए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवइ । एतेसि णं पुव्ववण्णिआणं पयाणं इमा संगहणी मू. (३३३) जोगो देवयतारग्गगोत्तसंठाण चंदरविजोगो । कुलपुण्णिम अवमंसा नेआ छाया य बोद्धव्वा ।। वृ. वर्षाणां - वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथममासं-- श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति ?, द्विकर्मकत्वादस्य समाप्तिति गम्यते, कोऽर्थः ? –वक्ष्यमाणसङ्ख्याङ्कस्वस्वदिनेषु इमानि नक्षत्राणि यदा अस्तमयन्ति तदा श्रावणमासेऽहोरात्रसमाप्तिरित्यर्थः, तेनैतानि रात्रिपरिसमापकत्वाद्रात्रिनक्षत्राण्युच्यन्ते, भगवनाह - गौतम चत्वारि नक्षत्राणि नयन्ति, तद्यथा - उत्तराषाढा अभिजिच्छ्रवणो धनिष्ठाच, तत्रोत्तरषाढा प्रथमान् चतुर्द्दश अहोरात्रान् नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः श्रवणनक्षत्रमष्टी अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं धनिष्ठानक्षत्रं नयति, एवं श्रावणमासं चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा च, तत्र धनिष्ठा आद्यान् चतुर्द्दश अहोरात्रान् नयति तदनन्तरं शतभिषक् सप्ताहोरात्रान् नयति ततः परमष्टावहोरात्रान् पूर्वभद्रपदा नयति तदनन्तरमेकमहोरात्रमुत्तरभद्रपदानयति एवमेन भाद्रपदमासं चत्वारि नक्षत्राणि नयन्ति, तस्मिंश्च मासेऽष्टाङ्गुलपौरुष्या - अष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते अत्र भावार्थः प्राग्वद् भाव०, एतदेवाह - तस्य भाद्रपदमासस्य चरमे दिवसे द्वे पदे अष्ट चाङ्गुलानि पौरुषी । अथ तृतीयं पृच्छति - 'वासाणं भंते! 'त्ति, इत्यादि, वर्षाणा भदन्त ! तृतीयं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! त्रीणि नक्षत्राणिउत्तरभद्रपदा रेवती अश्विनी च, तत्रोत्तरभद्रपदा चतुर्दश रात्रिन्दिवान् नयति, रेवती पञ्चदश रात्रिन्दिवान् नयति, अश्विनी एकं रात्रिन्दिवं नयति, एवं तृतीयं मासं त्रीणि नक्षत्राणि नयन्ति, तस्मिंश्च मासे द्वादशाङ्गुलपौरुष्या- द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थ: पूर्ववत्, एतदेवाह - तस्य मासस्य चरमे दिवसे रेखा - पादपर्यन्तवर्त्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति, किमुक्तं भवति ? - परिपूर्णानि त्रीणि पदानि पौरुषी भवति । ५१४ अथ चतुर्थं पृच्चति - 'वासाणमित्यादि, वर्षाणां - वर्षाकालस्य भदन्त ! चतुर्थं कार्त्तिकलक्षणं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! त्रीणि-अश्विनी भरणी कृत्तिका च, तत्राश्विनी चतुर्दशाहोरात्रान् भरणी पञ्चदशाहोरात्रान् कृत्तिका एकमहोरात्रं नयति, तस्मिंश्च मासे षोडशांगुलपौरुष्या - षोडशांगुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थ पूर्ववत्, एतदेवाह - तस्य मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि चांगुलानि पौरुषी भवति । गतो वर्षाकालः । अथ हेमन्तकालं पृच्छति - हेमन्तानां - हेमन्तकालस्य भदन्त ! प्रथमं मार्गशीर्षलक्षणं मासं कति नक्षत्राणि नयन्ति ?, गौ० त्रीणि न०- कृत्तिका रोहिणी मृगशिरश्च, तत्र कृत्तिका चतुर्द्दशाहोरात्रान् रोहिणी पञ्चदशाहोरात्रान् मृगशिर एकमहोरात्रं नयति, तस्मिंश्च मासे विंशत्यङ्गुलपौरुष्या-विंशत्यङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह - तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट चांगुलानि पौरुषी भवतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564