________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/३३२
सकायमणुरंगिआए छायाए सूरिए अणुपरिअट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवइ । एतेसि णं पुव्ववण्णिआणं पयाणं इमा संगहणी मू. (३३३) जोगो देवयतारग्गगोत्तसंठाण चंदरविजोगो । कुलपुण्णिम अवमंसा नेआ छाया य बोद्धव्वा ।।
वृ. वर्षाणां - वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथममासं-- श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति ?, द्विकर्मकत्वादस्य समाप्तिति गम्यते, कोऽर्थः ? –वक्ष्यमाणसङ्ख्याङ्कस्वस्वदिनेषु इमानि नक्षत्राणि यदा अस्तमयन्ति तदा श्रावणमासेऽहोरात्रसमाप्तिरित्यर्थः, तेनैतानि रात्रिपरिसमापकत्वाद्रात्रिनक्षत्राण्युच्यन्ते, भगवनाह - गौतम चत्वारि नक्षत्राणि नयन्ति, तद्यथा - उत्तराषाढा अभिजिच्छ्रवणो धनिष्ठाच, तत्रोत्तरषाढा प्रथमान् चतुर्द्दश अहोरात्रान् नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः श्रवणनक्षत्रमष्टी अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं धनिष्ठानक्षत्रं नयति, एवं श्रावणमासं चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा च, तत्र धनिष्ठा आद्यान् चतुर्द्दश अहोरात्रान् नयति तदनन्तरं शतभिषक् सप्ताहोरात्रान् नयति ततः परमष्टावहोरात्रान् पूर्वभद्रपदा नयति तदनन्तरमेकमहोरात्रमुत्तरभद्रपदानयति एवमेन भाद्रपदमासं चत्वारि नक्षत्राणि नयन्ति, तस्मिंश्च मासेऽष्टाङ्गुलपौरुष्या - अष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते अत्र भावार्थः प्राग्वद् भाव०, एतदेवाह - तस्य भाद्रपदमासस्य चरमे दिवसे द्वे पदे अष्ट चाङ्गुलानि पौरुषी ।
अथ तृतीयं पृच्छति - 'वासाणं भंते! 'त्ति, इत्यादि, वर्षाणा भदन्त ! तृतीयं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! त्रीणि नक्षत्राणिउत्तरभद्रपदा रेवती अश्विनी च, तत्रोत्तरभद्रपदा चतुर्दश रात्रिन्दिवान् नयति, रेवती पञ्चदश रात्रिन्दिवान् नयति, अश्विनी एकं रात्रिन्दिवं नयति, एवं तृतीयं मासं त्रीणि नक्षत्राणि नयन्ति, तस्मिंश्च मासे द्वादशाङ्गुलपौरुष्या- द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थ: पूर्ववत्, एतदेवाह - तस्य मासस्य चरमे दिवसे रेखा - पादपर्यन्तवर्त्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति, किमुक्तं भवति ? - परिपूर्णानि त्रीणि पदानि पौरुषी भवति ।
५१४
अथ चतुर्थं पृच्चति - 'वासाणमित्यादि, वर्षाणां - वर्षाकालस्य भदन्त ! चतुर्थं कार्त्तिकलक्षणं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! त्रीणि-अश्विनी भरणी कृत्तिका च, तत्राश्विनी चतुर्दशाहोरात्रान् भरणी पञ्चदशाहोरात्रान् कृत्तिका एकमहोरात्रं नयति, तस्मिंश्च मासे षोडशांगुलपौरुष्या - षोडशांगुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थ पूर्ववत्, एतदेवाह - तस्य मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि चांगुलानि पौरुषी भवति । गतो वर्षाकालः ।
अथ हेमन्तकालं पृच्छति - हेमन्तानां - हेमन्तकालस्य भदन्त ! प्रथमं मार्गशीर्षलक्षणं मासं कति नक्षत्राणि नयन्ति ?, गौ० त्रीणि न०- कृत्तिका रोहिणी मृगशिरश्च, तत्र कृत्तिका चतुर्द्दशाहोरात्रान् रोहिणी पञ्चदशाहोरात्रान् मृगशिर एकमहोरात्रं नयति, तस्मिंश्च मासे विंशत्यङ्गुलपौरुष्या-विंशत्यङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह - तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट चांगुलानि पौरुषी भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org