SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ५१५ अथ द्वितीयं पृच्छति-हेमंताणंभंते!' इत्यादि, हेमन्तकालस्य भदन्त! द्वितीयंपौषनामकं मासं कति नक्षत्राणि नयन्ति?, गौतम ! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-मृगशिरः आर्द्रा पुनर्वसूपुष्यश्च, तत्रमृगशिरश्चतुर्दश रात्रिन्दिवानयति, आर्द्रा अष्टौनय, पुनर्वसूसप्त रात्रिन्दिवान्, पुष्यः एकंरात्रिन्दिवं नयति, तदा चतुर्विंशत्यङ्गुलपौरुष्या-चतुर्विंशत्यङ्गुलाधिकपौरुष्याछायया सूर्योऽनुपरावर्तते, भावार्थः पूर्ववत्, तस्य मासस्य चरमे दिवसे रेखा-पादपर्यन्तवर्तिनी सीमा तत्स्थानिचत्वारि पदानि पौरुषी भवति, परिपूर्णानि चतवारि पदानि पौरुषी भवति। अथ तृतीयं पृच्छति-'हेमंताण मित्यादि, एतत् सुगमं, अथ चतुर्थं पृच्छति-'हेमंताणं भंते! चउत्थं इत्यादि, सुगमं।अतीतोहेमन्तः, अथग्रीष्मंपृच्छति-'गिम्हाणंभंते! चउत्थं' इत्यादि चत्वार्यपि इमानि ग्रीष्मकालसूत्राणि सुबोधानि, प्रायः प्राक्तनसुत्रानसारित्वात्, नवरंतस्मिंश्चाषाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया समचतुरस्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यगोधपरिमण्डलया उपलक्षणमेतत्शेषसंस्थानसंस्थितस्यप्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरेमण्डलेवर्तमाने सूर्ये, ततोयत्प्रकाश्यं वस्तुयत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम्-वृत्तस्य वृत्तया इत्यादि, एतदेवाह 'स्वकायमनुरङ्गिन्या' स्वस्य-स्वकीयस्यछायानिबन्धनस्य वस्तुनः कायः-शरीरंस्वकायस्तमनुरज्यते-अनुकारं विदघातीत्येवंसीला अनुरङ्गिनी द्विषडग्रहे'त्यादिनाधिनञ्प्रत्यय-स्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणाचछाया भवतीति, शेषं सुगमं,इदंच पौरुषीप्रमाणंव्यवहारतउक्तं, निश्चयतःसाढेस्त्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिानिर्वावेदितव्या, तथा च निश्चयतः पौरुषीप्रमाणप्रतिपादनार्थमिमाः पूर्वाचार्यप्रसिद्धाः करणगाथा:॥१॥ पव्वे पन्नरसगुणे तिहिसहिए पोरिसीइ आणयणे। छलसीअसियविभत्तेजं लद्धं तं विआणाहि ।। ॥२॥ जइ होइ विसमलद्धं दक्खिणमयणं ठविज नायव्वं । अह हवइ समं लद्धं नायव्वं उत्तरं अयणं॥ ॥३॥ . अयणगए तिहिरासी चउग्गुणे पव्वपायभइयंमि। जंलद्धमंगुलाणि यखयवुड्डी पोरिसीए उ॥ ॥४॥ दक्खिणवुड्डी दुपया अंगुलाणं तु होइ नायव्वा । उत्तरअयने हानी कायव्वा चउहि पायाहिं।। सावणबहुलपडिवया दुपया पुन पोरिसी धुवा होइ। चत्तारि अंगुलाई मासेणं वद्धए तत्तो॥ इकत्तीसइभागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे वुद्धी जावयचत्तारि उपयाई ।। ॥७॥ . उत्तरअयने हानी चउहिं पायाहिं जाव दो पाया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy