________________
५१६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७ / ३३३
11211
एवं तु पोरिसीए वुढिखया हुंति नायव्वा ॥ वुड्ढी वा हाणी वा जावइआ पोरिसीइ दिट्ठा उ । तत्तो दिवसगएणं जं लद्धं तं खु अयनगयं ॥
अत्र व्याख्या - युगमध्ये यस्मिन् पर्वणि यस्या तिथौ पोरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्व युगादित आरभ्य यानि पर्व्वाणि अतिक्रान्तानि तानि ध्रियन्ते धृत्वा च पञ्चदशभिर्गुण्यन्ते गुणयित्वा च विवक्षितायास्तिथेः याः प्रागतिक्रान्तास्तिथयस्ताभि सहितानि क्रियन्ते कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते, इहैकस्मिन् अयने त्र्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति ततस्तेन भागे हृते यल्लब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः, तत्र यदि लब्धं विषमं भवति यथा एककस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्त्ति दक्षिणभयनं ज्ञातव्यं, अथ भवति लब्धं समं यथा द्विकश्चतुष्कः षट्कः अष्टको दशको वा तदा तत्पर्यन्तवर्त्ति उत्तरायणमवसेयं, तदेवमुक्तो दक्षिणोत्तरायणपरिज्ञानोपायः, सम्प्रति षडशीत्यधिकेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह
'अयणगए' इत्यादि, यः पूर्वं भागे हृते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिरा- शिर्वर्त्तते स चतुर्भिर्गुण्यते गुणयित्वा च 'पर्वपादेण' युगमध्ये यानि सङ्घयया पर्वाणि चतुर्विंशत्यधिकशतसङ्ख्यानि तेषां पादेन - चतुर्थेनांशेनैकत्रिंशता इत्यर्थः, ( भागो हियते) तया भागे हृते यल्लब्धं तान्यङ्गुलानि चकारादङ्गुलांशाश्च पौरुष्याः क्षयवृद्धयोर्ज्ञातव्यानि, दक्षिणायने पदध्रुवराशेरुपरि वृद्धौ उत्तरायणे पदध्रुवराशेः क्षये ज्ञातव्यानीत्यर्थः, अथैवंभूतस्य गुणकारस्य भागहारस्य कथमुत्पत्तिरिति, उच्यते, यदि षडशीत्यधिकेन चतुर्विंशत्यङ्गलानि क्षये वृद्धी वा प्राप्यन्ते ततः एकस्यां तिथौ का वृद्धि क्षयो वा ? अत्रान्त्येन राशिना एककलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवती 'ति वचनात्, तत आद्येन राशिना षडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते ततः छेद्यच्छेदकराश्योः षट्केनापवर्त्तना जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत् लब्धमेकस्यां तिथौ चत्वार एकत्रिंशदभागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्तः एकत्रिंशद् भागहार इति, इह यल्लब्धं तान्यङ्गुलानि क्षये वृद्धौ वा ज्ञातव्यानीत्युक्तं, तत्र कस्मिन्नयने कियप्रमाणध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणध्रुवराशौ क्षये इत्येतन्निरूपणार्थमाह
'दक्खिणवुड्डी' इत्यादि, दक्षिणायने द्विपदात् - पदद्वयस्योपरि अंगुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्भ्यः पादेभ्यः सकाशादङ्गुलानां हानि, तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तन्निरूपयति 'सावणे'त्यादि, गाथाद्वयं, युगस्य प्रथमे संवत्सरे श्रावणमासबहुलपक्षे प्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणा ध्रुवा भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथि क्रमेण तावद्वर्द्धते यावन्मासेन - सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन चन्द्रमासापेक्षया एकत्रिंशततिथिभिरित्यर्थः चत्वारि अङ्गुलानि वर्द्धन्ते, कथमेतदवसीयते ? - यथा मासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिध्यात्मकेनेत्यत आह
'एक्कतीसे 'त्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षिणायने वृद्धि परिपूर्णानि चत्वारि पदानि ततो मासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन
7
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org