Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 501
________________ ४९८ जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ७/३१५ १. अथ संस्थानद्वारम्-‘एतेसि ण'मित्यादि, एतेषां भदन्त ! अष्टाविंशतेर्नक्षत्राणां अभिजिनक्षत्रं कस्येव संस्थितं-संस्थानं यस्य तत्तथा, प्रज्ञप्तम् ?, गौतम! - मू. (३१६)गोसीसावलि १ काहार २ सउणि ३ पुष्फोवयार ४ वावी य ५-६ । नावा ७ आसक्खंधग ८ भग ९ छुरघरए १० असगडुद्धो ११॥ मू. (३१७)मिगसीसावलि १२ रुहिरबिंदु १३ तुल्ल १४ वद्धमाणग १५ पडागा १६ । पागारे १७ पलिअंके १८१८ हत्ये २१० मुहफुल्लए २१ चेव ॥ मू. (३१८) स्त्री लग २२ दामणि २३ एगावली २४ अगयदंत २५ विच्छुअसले य२६ । गयविक्कमे २७ अतत्तों सीहनिसीही य २८ संठाणा ॥ वृ. गोशीर्षं तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिस्तत्समसंस्थानं प्रज्ञप्तम्, एवं शेषनक्षत्रसंस्थानानि ज्ञेयानि, तानीमानि-अभिजितोगोशीर्षावलिसंस्थानंश्रवणस्य कासारसंस्थान धनिष्ठायाःशकुनिपञ्जरसंस्थानं शतभिषजः पुष्पोपचारसंस्थानंपूर्वभद्रपदायाः अर्द्धवापीसंस्थानं उत्तरभद्रपदाया अप्यर्द्धवापीसंस्थानं एतदर्द्धवापीद्वयमीलनेन परिपूर्णा वापी भवति तेन सूत्रे वापीत्युक्तं, अतः संस्थानानांनसंख्यान्यूनताविचारणीया, रेवत्यानौसंस्थानं, अश्विन्याः अश्वस्कन्धसंस्थानं, भरण्याः भगसंस्थानं, कृत्तिकायाः क्षुराधारसंस्थानं, रोहिण्याः शकटोद्धिसंस्थानं, मृगशिरसः मृगशीर्षसंस्थानं, आर्द्राया रुधिरबिन्दुसंस्थानं, पुनर्वस्वोः तुलासंस्थानं, पुष्यस्य सुप्रतिष्ठितवर्द्धमानकसंस्थानं, अश्लेषायाः पताकासंस्थानं, मघायाःप्राकारसंस्थानं, पूर्वफल्गुन्या अर्द्धपल्यङ्कसंस्थानंउत्तरफल्गुन्याअप्यर्द्धपल्यसंस्थानं, अत्रापिअर्द्धपल्यङ्कद्वयमीलनेन परिपूर्ण पल्यङ्क भवतितेन संख्यान्यनतान, हस्तस्य हस्तसंस्थानं, चित्रायाः मुखमण्डनसुवर्णपुष्पसंस्थानं, स्वातेः कीलकसंस्थानं, विशाखायाः दामनिः-पशुरज्जुसंस्थानं, अनुराधाया एकावलिसंस्थानं, ज्येष्ठायाः गजदन्तसंस्थानं मूलस्य वृश्चिकलांगूल- संस्थानं, पूर्वाषाढायाः गजविक्रमसंस्थानं, उत्तराषाढायाः सिंहनिषीदनसंस्थानं इति संस्थानानि । अथ चन्द्रवियोगद्वारम् मू. (३१९) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अभिईनक्खत्ते कतिमुहुत्ते चंदेण सद्धिं जोगं जोएइ ?, गोअमा ! नव मुहत्ते सत्तावीसं च सत्तट्ठिभाए मुहत्तस्स चंदेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं अनुगंतव्वं वृ. 'एतेसि णमित्यादि, एतेषां च भदन्त ! अष्टाविंशतेनक्षत्राणां मध्ये अभिजिन्नक्षत्रं कति मुहूर्तान् चन्द्रेण सार्द्ध योगंयोजयति?,सम्बन्धंकरोतीत्यर्थः, गौ० नवमुहूतान् एकस्य च मुहूर्तस्य सप्तविंशति सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगं योजयति, कथमेतदवसीयते? मू. (३२०) अभिइस्स चंदजोगो सत्तट्ठिसंडिओ महोरत्तो। ते हुंति नव मुहुत्ता सत्तावीसं कलाओ अ॥ वृ.इहाभिजिन्नक्षत्रंसप्तषष्टिखण्डीकृतस्याहोरावस्यैकविंशतिभागान्चन्द्रेणसहयोगमुपैति, ते च एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थं ओहारात्रे त्रिंशन्मुहूर्ता इति त्रिंशता गुण्यन्ते जातानि षट् शतानि त्रिंशदधिकानि एषां सप्तषष्ट्या भागे हृते लब्धा नव मुहूर्ता एकस्य मुहूर्तस्य सप्तविंशतिसप्तषष्टिभागाअयंचसर्वजघन्यः चन्द्रस्य नक्षत्रयोगकालः, यत्तुश्रीअभयदेयसूरिपादेः समवायाङ्गेनवमसमवाय वृत्तौ नवमुहूर्तान् चतुर्विंशतिंच द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564