________________
वक्षस्कारः -७
इत्युच्यते ।
इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं त्र्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, कथमिति चेत्, उच्यते-चन्द्रमासमानं दिन २९/ एतद्रूपं त्रयोदशभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि त्रीणि शतानि दिनानां षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य द्वाषष्टिभागास्ततो दिनानयनार्थं द्वाषष्ट्या भागो हियते, लब्धानि षड् दिनानि तानि च पूर्वोक्तदिनेषु मील्यन्ते जातानि त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, ततो वर्षे द्वादश मासा (इति मासा) नयनाय द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च द्वादशानां भागं न प्रयच्छंति तेन यदि एकादश चतुश्चत्वारिंशद् द्वाषष्टिभागमीलनार्थं द्वाषष्ट्या गुण्यन्ते तदा पूर्णो राशिर्न त्रुटयति शेषस्य विद्यमानत्वात् तेन सूक्ष्मेक्षिकार्थं द्विगुणीकृतया द्वाषष्ट्या चतुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जाते १३६४ चतुश्चत्वारिंशद् द्वाषष्टिभागा अपि सवर्णनार्थं द्विगुणीक्रियन्ते कृत्वा च मूलराशी प्रक्षिप्यन्ते जातं १४५२, एषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां एतावदभिवर्द्धितमासप्रमाणं । नाक्षत्रादिसंवत्सरमानं, स एष प्रमाणसंवत्सर इति निगमनवाक्यं, एषांच मध्ये ॠतुमासऋतुसंवत्रावेव लोकैः पुत्रवृद्धिकलान्तरवृद्धयादिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात्, यदाह
119 11
-
४८५
“कम्मो निरंसयाए मासो ववहारकारगो लोए । साउ संसयाए ववहारे दुक्करा धेत्तु ॥"
अत्र व्याख्या - आदित्यादिसंवत्सरमासानां मध्ये कर्मसंवत्सरसम्बन्धी मासो निरंशतयापूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारकः स्यात्, शेषास्तु सूर्यादयो व्यवहारे ग्रहीतुं दुष्कराः साशंतया न व्यवहारपथमवतरन्तीति, निरंशता चैवं - षष्टि पलानि घटिका ते च द्वे मुहूर्तेः ते च त्रिंशदहोरात्रः ते च पञ्चदश पक्षः तौ द्वौ मासः ते च द्वादश संवत्सर इति, शास्त्रवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः, तथाहि - अत्र नक्षत्रमासप्रयोजनं सम्प्रदायगम्यं । 119 11 “वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि । कुर्वीत वास्तुप्रारम्भं, न तु शेषेषु सप्तसु ।।"
इत्यादी चन्द्रमासस्य प्रयोजनं, ॠतुमासस्य तु पूर्वमुक्तं, 'जीवे सिंहस्थे धन्विमीनस्थितेऽर्के, विष्णौ निद्राणे चाधिमासे नलग्नं' इत्यादौ तु सूर्यमासाभिवर्द्धितमासयोरिति, पूर्वं नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः अत्र तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति न पौनरुक्त्यं विभाव्यम्त, निशीथभाष्यकाराशयेन 'नक्षत्रचन्द्रसूर्याभिवर्द्धितरूपकं मासपञ्चकं तदद्वादशगुणः संवत्सर' इति संवत्सरपञ्चकमेव युक्तिमत्, अन्यथा उद्देशाधिकारे नक्षत्रसंवत्सरोद्देशकरणं युगसंवत्सराधिकारे चन्द्राभिवर्द्धितयोरुद्देशकरणं पुनः प्रमाणसंवत्सराधिकारे तेषामेव प्रमाणकरणमित्यादिकं गुरवे गौरवाय भवति, यत्तु स्थानाङ्गचन्द्रप्रज्ञप्त्यादावत्र चोपाङ्गे इत्थं संवत्सरपञ्चकवर्णनं तद् बहुश्रुतगम्यम् । अथ लक्षणसंवत्सरप्रश्नमाह - लक्षणसंवत्सरो भदन्त कतिविधः प्रज्ञप्तः ?, गौ० पंचविधः प्रज्ञप्तः, नक्षत्रादिभेदात्, तद्यथा
मू. (२७९) “समयं नक्खत्ता जोगं जोअंति समयं उऊ परिणामंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org