________________
४८४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७८ न्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तंच॥१॥ “सट्ठीए अइआए हवइ हु अहिमासगो जुगद्धमि।
बावीसे पव्वसए हवइ अबीओ जुगंतंमि॥" अस्याप्यक्षरगमनिका-एकस्मिन् युगे-अनन्तरोदितस्वरूपे पर्वणां-पक्षाणां षष्ठी अतीतायां-षष्ठिसङ्येषु पक्षेष्वतिक्रान्तेषु इत्यर्थः एतस्मिन् अवसरे युगा?-युगार्द्धप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशेद्वाविंशत्यधि पर्वशते-पक्षशतेऽतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिक मासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धितसंवत्सरौ, यद्यपि सूर्यवर्षपंचकात्मके युगे चन्द्रमासद्वयवनक्षत्रमासाधिक्यसम्भवस्तथापिनक्षत्रमासस्य लोकेव्यवहाराविषयत्वात्,कोऽर्थः?-यथा चन्द्रमासोलोकेविशेषतो यवनादिभिश्च व्यवह्रियतेतथाननक्षत्रमास इति, एतेषांचनक्षत्रादिसंवत्सराणांमासदिनमानानयनादि प्रमाणसंवत्सराधिकारे वक्ष्यते । एते च चन्द्रादयः पञ्च युगसंवत्सराः पद्धभिः पूर्यन्ते इति तानि कति प्रतिवर्ष भवन्तीति पृच्छन्नाह
प्रथमस्य- युगादौ प्रवृत्तस्य भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि- पक्षरूपाणि प्रज्ञप्तानि?, गौ०! चतुर्विंशति पर्वाणि, द्वादशमासात्मके नास्य प्रति-मासं पर्वद्वयसम्भवात्, द्वितीयस्यचतुर्थस्यच प्रश्नसूत्रेएवमेव, अभिवर्धितसंवत्सरसूत्रेषड्विंशतिपर्वाणितस्य त्रयोदश चन्द्रमासात्मकेनप्रतिमासं पर्वद्वयसम्भवात्, एवमन्योऽभिव-र्द्धितोऽपि,एवमेवपूर्वापरमीलनेन चतुर्विंशं पर्वशतं भवतीत्याख्यातम् ।
अथ तृतीयः- पमाणसंवच्छरे इत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः?, गौतम! पंचविधःप्रज्ञप्तः, तद्यथा-नाक्षत्रं चान्द्रःऋतुसंवत्सरःआदित्यःअभिवर्धितश्च, अवनक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो-लोकप्रसिद्धा वसन्तादयः तदव्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सर श्चेति, आदित्यचारेण दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्यसंवत्सरः।
प्रमाणप्रधानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मासप्रमाणाधीनत्वादादौ मासप्रमाणं, तथाहि-इह किल चन्द्रचन्द्राभिर्वर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपंचकप्रमाणे युगेअहोरात्रराशिस्त्रिंशदशशतप्रमाणो भवति, कथमेतदवसीयते इतिचेत्, उच्यते, इह सूर्यस्य दक्षिणमुत्तरं वाऽयनं त्र्यशीत्यधिकदिनशतात्मकंयुगेच पंच दक्षिणायनानि पंच चोत्तरायणानि इति सर्वसङ्ख्यया दशायनानि, ततस्त्रयशीत्यधिकंदिनशतंदशकेन गुण्यते इत्यागच्छति यथोक्तो दिनराशिः, एवंप्रमाणं दिनराशिं स्थापयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थं यथाक्रम सप्तषष्ट्येकषष्टिषष्टिद्वाषष्टिलक्षणैर्भागहारैर्भागं हरेत्, ततो यथोक्तं नक्षत्रादिमासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि-युगदिनराशि १८३० रूपः, अस्य सप्तषष्टियुगे मासा इति सप्तषष्ट्या भागो ह्रियते यल्लब्यं तन्नक्षत्रमासमानं तथाऽस्यै व युगदिनराशैः १८३० रूपस्य एकषष्टियुगेऋतुमासा इतिएकषष्ट्या भागहरणेलब्धंऋतुमासमानं, तथा युगे सूर्यमासाःषष्टिरिति ध्रुवराशेः १८३० रूपस्य षष्ट्या भागहारे यल्लब्धं तत्सूर्यमासमानं, तथाऽभिवर्द्धिते वर्षे तृतीये पंचमेवा त्रयोदशचन्द्रमासाभवन्तितद्वर्षं द्वादशभागीक्रियते तत एकैको भागोऽभिवर्द्धितमास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org