________________
वक्षस्कारः-७
४८३
परिवर्तनतानिष्पन्न इत्युपचारतोमासोऽपिनक्षत्रं, सच द्वादशगुणोनक्षत्रसंवत्सरः,प्रमाणं-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादि प्रमाणसंवत्सरः, स एव लक्षणानां वक्ष्यमाणस्वरूपाणांप्रधानतया लक्षणसंवत्सरः, यावता कालेन शनैश्चरोनक्षत्रमेकमथवा द्वादशापि राशीन् भूक्ते स शनैश्चरसंवत्सर इति।
नामनिरुक्तमुक्त्वाऽथैतेषां भेदानाह-'नक्खत्त'इत्यादि, नक्षत्रसंवत्सरो भगवन् ! कतिविधःप्रज्ञप्त?,गौतम! द्वादशविधःप्रज्ञप्तः, तद्यथा-श्रावणः भाद्रपदः आश्विनः यावत्पदात् कार्तिताकिदसंग्रहः, द्वादशआषाढः, अयं भावः-इह एकः समस्तनक्षत्रयोगपर्यायो द्वादशभिगुणितोनक्षत्रसंवत्सरः,ततोयेनक्षत्रसंवत्सरस्य पूरका द्वादशमस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवेसमुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिद्वादशविधो नक्षत्रसंवत्सरः, वा इति पक्षान्तरसूचने, अथवा बृहस्पतिर्महाग्रहो द्वादशभि संवत्सरैः योगमधिकृत्य यत्सर्वं नक्षत्रमण्डलमभिजिदादीन्यष्टाविंशतिनक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः। ___अथद्वितीयः 'जुगसंवच्छरे' इत्यादि,प्रश्नःप्रतीतः, उत्तरसूत्रेगौतम! युगसंवत्सरः पञ्चविधः प्रज्ञप्तः, तथाहि-चन्द्रश्चन्द्रोऽभिवर्धितश्चन्द्रोऽभिवर्द्धितश्च, चन्द्रेभवश्चान्द्रः, युगादौ श्रावणमासे बहुलपक्षप्रतिपदः आरभ्य यावत्पौर्णमासीपरिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रोमासः, एकपूर्णिमासीपरावर्तश्चान्द्रोमास इतियावत्, अथवा चन्द्रनिष्पन्नत्वादुपचारतोमासोऽपिचन्द्रः, सचद्वादशगुणश्चन्द्रसंवत्सरः, चन्द्रमासनिष्पन्नत्वादिति, द्वितीयतुर्यावप्येवं व्युत्पत्तितोऽवगन्तव्यौ, तृतीयस्यु युगसंवत्सरोऽवर्द्धितो नाममुख्यतस्त्रयोदशचन्द्रमासप्रमाणः संवत्सरोद्वादश[चन्द्र]मासप्रमाणः संवत्सर उपजायते, कियता कालेन सम्भवतीत्युच्यते- '
इह युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवद्धितरूपपञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परिभाव्यमामन्यूनातिरिक्तानि पंच वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमासश्चैकोनत्रिंशद्दिनानि द्वात्रिंशन द्वाषष्टिांगा दिनस्य तत गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चान्द्रमासोऽधिको लभ्यते, सच यथालभ्यते तथा पूर्वाचार्यप्रदर्शितेयं करणगाथा॥१॥ "चंदस्स जो विसेसो आइच्चस्स य हविज मासस्स।
तीसइगुणिओ संतो हवइ हु अहिमासगो इक्को॥" अस्या अक्षरगमनिका आदित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाच्चन्द्रमासपरिमाणमेकोनविंशद्दिनानि द्वात्रिंशच द्वाषष्टिभागादिनस्येत्येवंरूपंशोध्यते ततः स्थितं पश्चाद्दिनमेकमेकेन द्वाषष्टिभागेनन्यनंतच दिनंत्रिंशता गुण्यतेजातानि त्रिंशद्दिनानि एकश्चद्वाषष्टिशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागादिनस्यद्वाषष्टिभागास्तेत्रिंशद्दिनेभ्यः शोध्यन्तेततःस्थितानिशेषाणिएकोनत्रिंशदिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य एतावत्परिमाणश्चन्द्रमास इति भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एखोऽधिकमासो, युगेचसूर्यमासाः षष्टिः ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org